________________
३१० तत्त्वार्थाधिगमसूत्रम् -
[ अध्यायः १० नान्येन बोधितः । स द्विविधः-तीर्थकरोहतांतीर्थकरनामकर्मोदयभाक् । तथा परः प्रत्येकबुद्धसिद्धः प्रत्येकमेकमात्मानं प्रति केनचिनिमित्तेन सञ्जातजातिस्मरणाद् वल्कलचीरिप्रभृतयः करकरण्उवादयश्च प्रत्येकबुद्धाः । बुद्धबोधितोऽपि द्विविधः । बुद्धेन-ज्ञातसिद्धान्तेन विदितसंसारस्वभावेन बोधितो बुद्धबोधितः। परबोधकः परस्मायुपदेशं ददाति । अपरः पुनः स्वस्मै इष्ट-हित स्वेष्टं तत्करणशीलः स्वेष्टकारी, न परस्मै युगपदुपदिशति किञ्चिदिति चतु
र्थो विकल्पः। एते चत्वारोऽपि विकल्पा विकल्पद्वयमनुप्रविशन्ति । तत्र चतुर्विकल्पानां द्वयेन्तर्भावः
स्वयम्बुद्धसिद्ध तीर्थकरः प्रत्येकबुद्धश्च बुद्धबोधितसिद्ध परबोधकः स्वेष्टकारी
- चेति ॥
भा०-ज्ञानम् । अत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य केवली सिध्यति। पूर्वभावप्रज्ञापनीयो द्विविधः-अनन्तरपश्चात्कृतिकश्च परम्परपश्चात्कृतिकश्च अव्यञ्जिते च व्यञ्जिते च । अव्यञ्चिते द्वाभ्यां ज्ञानाभ्यां सिध्यति । त्रिभिश्चतुभिरिति । व्यञ्जिते द्वाभ्यां मति-श्रुताभ्याम् , त्रिभिति-श्रुता-ऽवधिभिः मति-श्रुत-मनःपर्यायैर्वा, चतुभिमंति-श्रुता-ऽवधि-मनःपर्यायैरिति॥
टी०-ज्ञानमिति । अत्रापि तावेव द्वौ नयौ । तत्र वर्तमानकालग्राहिणः केवलज्ञानवान् सिध्यति । इतरोऽपि द्विविधः। तत्रानन्तरं कदाचित् किञ्चित् ज्ञानं भवति परम्परपश्चास्कृतिकस्य । अव्यञ्जिते व्यञ्जिते चेति चत्वारो विकल्पाः । तत्राव्यञ्जिते द्वे त्रीणि चत्वारि वा ज्ञानानि पश्चात्कृतानि । व्यञ्जिते मते मति-श्रुतवान् मति-श्रुता-ऽवधिमान् मति-श्रुतमनःपर्यायवान् वा मति-श्रुता-ऽवधि-मनःपर्यायवान् सिध्यतीति ॥
भा०–अवगाहना । कः कस्यां शरीरावगाहनायां वर्तमानः सिध्यति । अवगाहना द्विविधा-उत्कृष्टा जघन्या च । उत्कृष्टा पञ्चधनु:शतानि धनु:पृथक्त्वेनाभ्यधिकानि । जघन्याः सप्त रत्नयोऽगुलपृथक्त्वहीनाः। एतासु शरीरावगाहनासु सिध्यति पूर्वभावप्रज्ञापनीयस्य । अप्रत्युत्पन्नभावप्रज्ञापनीयस्य तु एतास्वेव यथास्वं त्रिभागहीनासु सिध्यति ॥
टी०-अवगाहनेति । आत्मनः शरीरेऽवगाहः-अनुप्रवेशः । सङ्कोचविकासधर्मत्वादात्मनस्तच्छरीरं किंप्रमाणमिति चिन्त्यतेऽवगाहना चरमशरीरे। साऽवगाहना द्विधाउत्कृष्टा जघन्या च। तत्रोत्कृष्टा पञ्च धनु:शतानि धनुःपृथक्त्वेनाभ्यधिकानि,
१ 'परस्मायुगपदिशति' इति च-ज-पाठः। २'पृथक्त्वेन हीनाः' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org