________________
सूत्रं ७ ] स्वोपज्ञभाष्य टीकालङ्कृतम्
३०७ टी०-काल इति । अत्रापि तदेव नयद्वयम् । कस्मिन् कालेसिध्यतीति । तत्र प्रत्युत्पनभावप्रज्ञापनीयस्य अकाले अविद्यमानकाले ईषत्प्राग्भारोपलक्षितर्गमनदेशे सिध्यति । न च तत्र कालः समस्ति गतश्च तत्र सिध्यति। इतरस्य तु जन्मतः संहरणतश्च । तत्र जन्मतोऽवसर्पिण्यादिषु त्रिष्वपि जातः सिध्यति । एवं तावदविशेषतः, सामान्येनेत्यर्थः। विशेषतस्तु अवसर्पिण्यां सुषमदुःषमायां-तृतीये कालभागे सख्येयेष वर्षेष शेषेषु जातः सिध्यति। दुःषमसुषमायां सर्वस्यां-चतुर्थे कालविभागे सर्वत्र सिध्यति । दुःषमसुषमायां जातो दुःषमायां-पञ्चमे कालविभागे सिध्यति, न तु दुःषमायां जातः कदाचित सिध्यतीति । अन्यत्रोत्पत्तिः दुःषमायामपि जातो नैव सिध्यति। संहरणं प्रेति विवक्ष्यते यदा तदा सर्वकालेष्ववसर्पिण्यादिष्वपि सिध्यतीति ॥
भा०-गतिः। प्रत्युत्पन्नभावप्रज्ञापनीयस्य 'सिद्धिगत्यां सिध्यति । शेषास्तु नया द्विविधाः-अनन्तरपश्चात्कृतगतिकश्व एकान्तरपश्चात्कृतगतिकश्च । अनन्तरपश्चात्कृतगतिकस्य मनुष्यगत्यां सिध्यति । एकान्तरपश्चात्कृतगतिकस्याविशेषेण सर्वगतिभ्यः सिध्यति ॥ .टी०-गतिद्वारे प्रत्युत्पनभावप्रज्ञापनीयस्य सिद्धगत्यां सिद्धयति, नान्यस्यां गतौ। शेषात्रिकालविषया नया द्विप्रकाराः। अनन्तरपश्चादित्यादि । अनन्तरा पश्चात् कृता गतिर्येषां तेऽनन्तरपश्चात्कृतगतिकास्तेषां मनुष्यगत्यां सिध्यति । एकान्तरेत्यादि । एकान्तराः पश्चात्कृता गतयो येन तस्याप्यविशेषेण सर्वगतिभ्यः सिध्यति। एकमनुष्यगत्या अन्तरिताः-पश्चात्कृता नरकगतयो येनेत्यर्थः॥ . भा०-लिङ्गम् । स्त्री-पुं-नपुंसकानि । प्रत्युत्पन्नभावप्रज्ञापनीयस्यावेदः सिध्यति। पूर्वभावप्रज्ञापनीयस्य अनन्तरपश्चात्कृतगतिकस्य परम्परपश्चात्कृतगतिकस्य च त्रिभ्यो लिङ्गेभ्यः सिध्यति ॥ .टी०-लिङ्ग ख्यादि । तत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य अवेदो-विगतलिङ्गः सिध्यति । लिङ्ग वेद इत्येकोऽर्थः। पूर्वभावप्रज्ञापनीयस्य तु अनन्तरपश्चात्कृतगतिकस्य । अनन्तरपश्चात्कृतलिङ्गस्येत्यर्थः । गतौ चतुर्विधायां नियमेन लिङ्ग, लिङ्गे चावश्यम्भाविनी गतिरिति लिङ्गशब्दो नोचरितः, अविनाभावात् । यदेवानन्तरं पुंल्लिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गं वा एकमेव । एकान्तरपश्चात्कृतगतिकश्चेत्यत्रापि गतिशब्दो लिङ्गवाची। एकेनान्तरेण लिङ्गेन पश्चात्कृतानि शेषलिङ्गानि येन तस्य त्रिभ्यो लिङ्गेभ्यः सिध्यति॥
१'गगन' इति ग-पाठः। २ 'प्रसंहरणं' इति च-ज-पाठः। ३ 'सिद्धगत्यां' इति घ-टी-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org