SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ३०६ तत्वार्थाधिगमसूत्रम् [ अध्यायः १० पूर्व भावप्रज्ञापनीयस्य जन्मप्रतिपन्नजातः कर्मभूमिषु पञ्चसु भरतेषु पञ्चस्वैरावतेषु पञ्चसु विदेहेषु सिध्यति । संहरणं प्रति मानुषक्षेत्रे सिध्यति । संहरणं द्विधा स्वकृतं परकृतं च । तत्र स्वकृतं चारणानां विद्याधराणां चेच्छातो विशिष्टस्थानाश्रयणम् । परकृतं चारण- विद्याधर- देवैः प्रत्यनीकतयाऽनुकम्पया चोत्क्षिप्यान्यत्र क्षेपणं संहरणम् । तच्च न सर्वस्यैव साधोः संहरणं समस्तीत्येतद् विवेकेन दर्शयति -तत्र प्रमत्तसंयताः संयतासंयताश्च - देशविरताः संहियन्ते । केचिदाहुरविरतसम्यग्दृष्टिरपीति । अमी पुनर्न जातुचित् संहियन्ते संहरणस्य द्वैविध्यम् मतान्तरम् भा०- - श्रमण्यपगतवेदः परिहार विशुद्धिसंयतः पुलाश्रमण्यादिसप्तानां कोऽप्रमत्तश्चतुर्दशपूर्वी आहारकशरीरीति' न संन्दियन्ते टी० - श्रमणी संयतीत्यर्थः । अपगतवेदः परिहारविशुद्धिसंयत उक्तलक्षणः तथा पुलाकसंयतः अप्रमत्तसंयतः चतुर्दश पूर्वधरः आहारकशरीरीति । एते सप्तापि न संहियन्ते । आगमोsपि — " " समणीमवगयवेदं परिहारपुलागमप्पमत्तं च । चोपुविं आहारगं च गवि को वि संहरइ || भा०- -ऋजु सूत्रनयः शब्दादयश्च त्रयः प्रत्युत्पन्नभावप्रज्ञापनीयाः शेषा नया उभयभावं प्रज्ञापयन्तीति । टी०- -ऋजुसूत्रनयः शब्दादयश्च त्रयः - शब्द- समभिरूढै-वम्भूताः प्रत्युत्पन्नभावप्रज्ञापनीयाः - वर्तमानार्थग्राहिणः । शेषा-नैगमादयो नया उभयभावं प्रज्ञापयन्त्यतीतं वर्तमानं चेति कालत्रयाभ्युपगमादिति ॥ भा० – कालः । अत्रापि नयद्वयम् । कस्मिन् काले सिध्यतीति ।। प्रत्युत्पन्नभावप्रज्ञापनीयस्य अकाले सिध्यति । पूर्वभावप्रज्ञापनीयस्य जन्मतः संहरणतश्च । जन्मतोऽवसर्पिण्युत्सर्पिण्यामनवसर्पिण्युत्सर्पिण्यां च जातः सिध्यति । एवं तावदविशेषतः । विशेषतोऽप्यवसर्पिण्यां सुषमदुःषमायां सङ्ख्येयेषु वर्षेषु शेषेषु जातः सिध्यति, दुःषमासुषमायां सर्वस्यां सिध्यति, दुःषमसुषमायां जातो दुःषमायां सिध्यति, न तु दुःषमायां जातः सिध्यति, अन्यत्र नैव सिध्यति । संहरणं प्रति सर्वकालेषु अवसर्पिण्यामुत्सर्पिण्यामनवसर्पिण्युत्सर्पिण्यां च सिध्यति ।। १' इति ' इति न्यूनो ग-पाठः । २ छाया श्रमणी मपगतवेदं परिहारं पुलाकमप्रमत्तं च । चतुर्दशपूर्विणमाहारकं च नापि कोऽपि संहरति ॥ ३ प्रवचनसारोद्धारे १४१९ तमीगाथारूपेणोद्धृतेयम् । Jain Education International ܐܕܕ For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy