________________
सूत्रं ७] . • स्वोपज्ञभाष्य-टीकालङ्कृतम्
३०५ टी-तत्र क्षेत्रमाकाशं जीवपुद्गलानां निवासगतिविशेषणाल्लोकाकाशपरिग्रहः । तस्यापि लोकाकाशस्यैकदेशग्रहणम् , अर्धतृतीयद्वीपसमुद्रद्वयमीपत्याग्भारोपलक्षितच गगनप्रदेश इति । कालोऽनादिरनन्तस्तस्योत्सर्पिण्यवसर्पिणी च ग्राह्या । गतिर्नरकादिभेदेन चतुर्विधा । लिङ्गं खी-पुं-नपुंसकाख्यम्, अथवा द्रव्यलिङ्गं भावलिङ्गमलिङ्गमिति। तीर्थमिति तीर्थकरत्वं प्राप्य सिद्धा इत्यादिविकल्पम् । चारित्रं सामायिकादि मूलगुणोत्तरगुणभेदम् । प्रत्येकबुद्धबोधितः स्वयम्बुद्धसिद्धादिभेदः । ज्ञानं मति-श्रुतादिभेदम् । अवगाहनामिति शरीरावगाहग्रहणम्। अन्तरमेकसमयादिकं षण्मासान्तिकम् । सङ्ख्येत्येकस्मिन् समये कियन्तः सिध्यन्तीत्यादि। अल्पबहुत्वमिति क्षेत्रसिद्धाद्यन्तःपातिभेदानां परस्परं चिन्त्यते । एतानि द्वादशानुयोगद्वाराणि सिद्धस्य सिद्धत्वलाभे कारणानि भवन्ति। एतदेव स्पष्टयति
भा०-एभिः सिद्धः साध्यः अनुगम्यश्चिन्त्यो व्याख्येय इत्येकार्थत्वम् । तत्र पूर्वभावप्रज्ञापनीयः प्रत्युत्पन्नभावप्रज्ञापनीयश्च द्वौ नयौ भवतः । तत्कृतोऽनुयोगविशेषः।
टी०-साध्यपर्यायानाचष्टे-अनुगमनीयोऽनुगम्योऽनुसर्तव्योऽनुसृत्यः। चित्ते व्यवस्थाप्यश्चिन्त्यः व्यवस्थाप्य च व्याख्येयः-कथनीयः। एकस्य-अभिन्नस्यार्थस्य वाचकाः सर्व एते साध्यादयः । अत एव पर्यायत्वं युगपदप्रयोगात् । तत्र-अस्मिन् सिद्धव्याख्याने कर्तव्ये छौ नयो पूर्वभावप्रज्ञापनीयः प्रत्युत्पन्नभावप्रज्ञापनीयश्च । पूर्वम्-अतीतं भावं प्रज्ञापयतीति पूर्वभावप्रज्ञापनीयः । प्रत्युत्पन्न-वर्तमानं भावं प्रज्ञापयतीति प्रत्युत्पन्नभावप्रज्ञापनीयः । नैगमादिप्रसिद्धनयेभ्यश्च नेमौ व्यतिरिक्तौ । एतेषामेव वाचोयुक्तिभेदेन ग्रहणम् । तत्र नैगमसमह-व्यवहाराः सर्वकालार्थग्राहित्वात् पूर्वभावप्रज्ञापनीयशब्दवाच्याः । ऋजुसूत्र-शब्द-समभिरूढैवम्भूतास्तु वर्तमानकालार्थप्रतिग्राहित्वात् प्रत्युत्पन्नभावप्रज्ञापनीयशब्दवाच्या विज्ञेयाः। आभ्यां नयाभ्यां क्षेत्रादयो व्याख्येयाः। तत्कृतः-ताभ्यां कृतोऽनुयोगविशेषो व्याख्याप्रकारः॥
भा०-तद्यथा-कस्मिन् क्षेत्रे सिध्यतीति। प्रत्युत्पन्नभावप्रज्ञापनीयं प्रति सिद्धिक्षेत्रे 'सिध्यतीति। पूर्वभावप्रज्ञापनीयस्य जन्म प्रति पञ्चदशसु कर्मभूमिषु जातः सिध्यतीति । संहरणं प्रति मानुषे क्षेत्रे 'सिध्यतीति । तत्र प्रमत्तसंयताः संयतासंयताश्च संहियन्ते ॥
टी-तद्यथेत्यादिना क्षेत्रं निरूपयति-कस्मिन् क्षेत्रे सिध्यति । तत्र प्रत्युत्पनभावप्रज्ञापनीयस्य सिद्धिक्षेत्रे सिद्धयतीति । तत्र सिद्धः प्रतिष्ठितः। तथा चागमः"" इहं बोंदि चइत्ता णं तत्थ गंतूण सिज्झई" । अप्राप्तस्थानस्तु नैव सिद्धः, कृत्यशेषत्वात् ।
१-३ 'सिध्यति' इति घ-पाठः । ४ 'प्रतिष्ठितो यः' इति च-ज-पाठः । ५ आवश्यक-नियुक्तेः ९५९समीगाथाया अयमुत्तरार्धः, एतत्पूर्वार्धश्छायापूर्वको यथा
" अलोए पडिहया सिद्धा, लोअग्गे अपइद्विआ।"
अलोके प्रतिहताः सिद्धा लोकाने च प्रतिष्ठिताः । इह तर्नु त्यक्त्वा तत्र गत्वा सिध्यन्ति ॥ ६ ‘कृत्यं' इति च-ज-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org