SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३०४ तत्त्वार्थाधिगमसूत्रम् । [अध्यायः १० तिष्ठति सर्वार्थान सोऽत्यन्तं पश्यंस्तथा विजानंश्च । नास्ति स्वभावविगमो न तु सर्वस्यापि भावस्य ॥४॥ घातीनि तु कर्माणि स्वभावजातान् गुणान् विवृण्वन्ति । तदभावात् स्वाभाविकगुणभावो भवति न तु सिद्धः ॥५॥ यदि च स्वभावविगमो नेष्टः कस्मात् स निष्क्रियो भवति । इति वा चोचं प्रोक्तं यत्स्पन्दस्तत्स्वभावत्वम् ॥ ६॥ कार्याभावाच्च पुनर्न स्पन्दस्तस्य विद्यतेऽत्यन्तम् । प्रायोगिकोऽप्ययुक्तः स्पन्दः कर्मप्रमुक्तस्य ॥७॥ विषयैश्च तस्य नार्थः क्षुत्-तृट्-स्वेदादि-मोहबाधानाम् । रागादीनां च तथाऽभावादुपयोगहेतूनाम् ॥ ८॥ एतेन व्याख्यातो भाषण-चक्रमण-चिन्तनादीनाम् । चेष्टानां सिद्धस्याभावो विशरीरवाङ्मनसः ॥९॥" एवं तेषां मुक्तात्मनां "पूर्वप्रयोगादिभियुक्तिस्तद्गतिः” इति वचनात् तेषां गतिः सिद्धेति ॥ ६॥ त एते सिद्धान्तज्ञेन सिद्धाः क्षेत्रादिभिर्वादशमिरनुयोगद्वारैरनुगन्तव्याः “प्रमाणनयैरधिगमः" (अ०१, सू० ६) इति वचनादित्याह सूत्रम्-क्षेत्र काल-गति-लिङ्ग-तीर्थ-चारित्र प्रत्येकसिद्धस्य १२ बुद्धबोधित-ज्ञाना-ऽवगाहना-ऽन्तर-सङ्ख्या-ऽल्पबहुत्वतः अनुयोगद्वाराणि साध्याः ॥ १०-७॥ ____टी.-अथवा अमी सिद्धाः परिनिवृत्तदोषाः कार्मणशरीरौपशमिकादिभावनिरुपाख्याः किं पर्यायान्तरेण व्यपदेष्टुमशक्या एव आहोस्विदतीतव्यवहारा एव हि निर्धार्या इति ?॥ उच्यते -शक्यन्त एव व्यपदेष्टुं, यस्मात् ते खलु व्यवजिहीषेद्भिः प्रत्युत्पन्नभूताथोनुग्रहतन्त्रनयद्वितयसामर्थ्य विशेषवद्भिः श्रुतज्ञानाहितदाढ्यैानदर्शनचरणाप्रच्युतमार्गस्तत्त्वप्रतिपत्त्यर्थमात्महितमादधानः क्षेत्रादिद्वारैरनुगमनीया इत्याह-क्षेत्रकाल इत्यादि । क्षेत्रादीनां अल्पबहुत्वान्तानां द्वन्द्वः । द्वन्द्वसमासाभिनिवृत्ताच प्रातिपदिकात् तृतीयार्थे तसिः। सिद्धिविशेषस्यानेकाश्रयत्वात् साध्यवचनम् । क्षेत्रादीनि च द्वादशापि द्वाराणि प्रतिपदं दर्शयति भाष्येण भा०-क्षेत्रं, कालः, गतिः, लिङ्ग, तीर्थ, चारित्रं, प्रत्येकबुद्धबोधितः, ज्ञानं, अवगाहना, अन्तरं, सङ्ख्या, अल्पबहुत्वमित्येतानि द्वादशानुयोगबाराणि सिद्धस्य भवन्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy