________________
•
सूत्रं ६ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
सम्यग्दर्शनादिसलिलक्लेदात् प्रहीणाष्टविधकर्ममृत्तिकालेपः ऊर्ध्वगौरवादूर्ध्वमेव गच्छत्या लोकान्तात् ॥ स्यादेतत् । लोकान्तादूर्ध्वं मुक्तस्य गतिः किमर्थं न भवतीति । अत्रोच्यते
टी० - एवमूर्ध्वगौरवेत्यादि । संसारोदधौ भवसलिले भवः - औदारिकादिकायनिर्वृत्तिः । भव एव सलिलं तत्र मग्नो भवासक्तः शरीरी अनियमेन अधस्तिर्यगूर्ध्वं च गच्छति । ततः सम्यग्दर्शनज्ञानावरणसलिलाद्रीकृत प्रहीणाष्टविधकर्ममृत्तिकालेपः ऊर्ध्वमेव गच्छति आ लोकान्तादिति । स्यादेतदित्यादिना इदमाशङ्कते - ऊर्ध्वं गच्छत्या लोकान्तादिति को नियमः १ स्वाभाविक्या गत्या लोकान्तादपि परेण गच्छतु गतेर्निवारकस्याभावादिति । अत्रोच्यते
भा० - धर्मास्तिकायाभावात् । धर्मास्तिकायो हि जीवपुद्गलानां गत्युपग्रहेणोपकुरुते । स तत्र नास्ति । तस्माद् गत्युपग्रह कारणाभावात् परतो गतिर्न भवत्यप्सु अलाबुवत् । नाधो न तिर्यगित्युक्तम् । तत्रैवानुश्रेणिगतिर्लोकान्तेऽवतिष्ठते मुक्तो निष्क्रिय इति ॥ ६ ॥
३०३
टी० - धर्मास्तिकायाभावादिति । अस्त्येव निवारकं धर्मद्रव्यं तद्व्यपेक्षाकारणं स्वयमेव गतिपरिणतस्य जीवपुद्गलद्रव्यस्य धर्मद्रव्यमुपग्राहकं भवति मीनस्येव वारिद्रव्यम्, न त्वगच्छन्तं झषं बलाद् वारि नयति । एवं गतिपरिणतस्यात्मन: पुद्गलस्य वा स्वत एव गत्युपग्रहा कारी धर्मास्तिकायः कारणीभवति । स च लोकात् परतो नास्ति । तस्माद् गत्युपग्रहकारिणोऽभावात् परतो गतिर्नास्ति अप्सु यथाऽलाबुनः । अलाबु हि मृल्लेपापगमात् स्वयमेव गच्छज्जलमस्तकप्रविष्टं भवति, न परतो याति, उपग्राहकजलद्रव्याभावात् । ऊर्ध्वमेव च प्रयाति, नाधो न तिर्यगित्युक्तमेव । तत्रैवानुश्रेणिगतिर्लोकान्तेऽवतिष्ठत इति । यत्र देशे स्थितो मुच्यते समस्तैः कर्मभिस्तत्र या शरीरस्योपरि रुद्धा श्रेणिर्नभसस्तयैव गत्वा लोकान्तेऽवतिष्ठते मुक्तात्मा निष्क्रिय इति ॥ यथोक्तम्
" धर्माभावाच्चालोके स प्रतिहन्यते न लोकाग्रे |
[ न तु स्पर्शित्वात् ] गमनोपकृद्विधर्मो जीवानां पुद्गलानां च ॥ १ ॥ मुक्तोऽनन्तं कालं गच्छत्युपरीति वाऽप्यनुपपन्नम् । मुक्तस्य संसृतिर्हि न युक्ता भ्रमणं हि संसारः ॥ २॥ संसारिणस्तु विश्रमणमस्ति तस्य न महाननर्थः स्यात् । अपि चालोकोऽभीष्टः स च कृतकृत्यस्तथाऽऽत्मवशः ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org