________________
३०२ तत्त्वार्थाधिगमसूत्रम् ।
[ अध्यायः १० स च गतिपरिणाम ऊर्ध्वमेव भवति नाधस्तिर्यग् वा । पूर्वाभिहितहेतुनिरपेक्ष ऊर्ध्वगौरवप्रयोगपरिणामाद् विना असङ्गयोगं चान्तरेणेत्यादि । तदाह
__ भा०-गौरवप्रयोगपरिणामासङ्गयोगाभावात् । तद्यथा-गुणवद्भमिभागारोपितमृतुकालजातं बीजो दादङ्गुरप्रवालपर्णपुष्पफलकालेषु अविमानितसेकदौहृदादिपोषणकर्मपरिणतं कालच्छिन्नं शुष्कमलाबु अप्सु न निमज्जति ।
टी-गौरवप्रयोगपरिणामासङ्गयोगाभावादित्यादि । तद्यथेत्यादिना दृष्टान्तमाह-अलाबुनोऽवस्थाः पूर्विका विशेष्यन्ते । गुणवभूमिभागारोपितमिति बीजावस्था । गुणवान् भूमिभागोऽनुपहतः क्षार-मूत्र-पुरीषादिभिः तत्रारोपितं निखातं सत् काले-वर्षासु न जातं ततश्चोच्छ्नावस्थाद् बीजोद्भेदादङ्कुरः प्रवालं किसलयं पर्णं जरठं
" ततः पुष्पं ततः फलं एषां बीजारोपणोद्भेदादङ्करप्रवालपर्णपुष्पफलानां कालेषु स्वेषु स्वेषु विमानितः प्राप्तकालो न कृतः कृतस्त्वविमानितः सेको दौहृदश्च । आदिग्रहणादस्थि-धूम-भस्मावगुण्ठनादिपरिग्रहः । एवमादिना पोषणकर्मणा परिणतंजरठीभूतं पकं काले परिपाकोत्तरकालच्छिन्नं शुष्कमलाबु अप्सु न निमज्जतिन जलेऽन्तः प्रविशति । सर्वेषां विशेषणानामिदं फलं निरुपहतं वातेनानाश्लिष्टं अशुषिरमिति ।
भा०—तदेव गुरुकृष्णमृत्तिकालेपैनैबहुभिरालिप्तं धनमत्तिकालेपवेष्टनजनितागन्तुकगौरवमप्सु प्रक्षिप्तं तंजलप्रतिष्ठं भवति। यदा त्वस्याद्भिः क्लिन्नो मृत्तिकालेपो व्यपगतो भवति तदा मृत्तिकालेपसङ्गनिर्मुक्तं मोक्षानन्तरमेवोर्च गच्छति आ सलिलोवंतलात्।
टी-तदेव च पुनर्गुाः कृष्णमृत्तिकाया लेपैनैः-निरन्तरैबहुभिः-अष्टाभिदर्भवेष्टने कालमालिप्तः तेन च घनमृत्तिकालेपेन वेष्टनेन च दर्भादिजनितमागन्तुकं गौरवं यस्य तदेवंविधमप्सु प्रक्षिप्तं तेजलप्रतिष्ठं भवति उत्तरकालम् । यदा त्वस्याद्भिः सम्बन्धतः क्लिन्नो मृत्तिकालेपो व्यपगतो भवति तदा तत्सङ्गविनिर्मुक्तं दर्भादिबन्धनमृत्तिकामोक्षणसमनन्तरमेवोर्च गच्छत्या सलिलोवतलादित्येष दृष्टान्तः ।
सम्प्रति दान्तिकं दर्शयति
भा०–एवमूर्ध्वगौरवगतिधर्मा जीवोऽप्यष्टविधकर्मलेपमृत्तिकाऽवेष्टितस्तत्सङ्गात् संसारमहार्णवे भवसलिले निमग्नो भवासक्तोऽधस्तिर्यगृधं च गच्छति
१ 'तना' इति ज-पाठः। २ मृत्तिकावेष्टन' इति ग-पाठः । ३ तलप्रविष्टं' इति ग-पाठः । वेशनकाल' इति च-ज-पाठः। ५'तलप्रतिष्ठं ' इति च-ज-पाठः। ५ ' मृत्तिकावेष्टितः सन् संसार.' इति ग-पाठः ।
६'सम्बन्धेन' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org