SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ सूत्रं ६ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०-अतोऽन्यासङ्गादिजनिता गतिर्भवति । यथा सत्स्वपि प्रयोगादिषु गतिकारणेषु जातिनियमेनाधस्तिर्यगूज़ च स्वाभाविक्यो लोष्टवावग्ननिां गतयो दृष्टास्तथा सङ्गविनिर्मुक्तस्यो गौरवादूर्ध्वमेव सिध्यमानगतिर्भवति। संसारिणस्तु कर्मसंङ्गादधस्तिर्यगूर्व च । किञ्चान्यत् टी–अतोऽन्येति स्वाभाविकी गतिमपहाय सङ्गादिजनिता गतिर्भवति । सङ्ग:कर्मकृतं स्खलनम् । आदिग्रहणात् अभिघातप्रेरणादिषु गमनकारणेषु। 'जातिनियमेन' जातिः पृथिव्य-निला-ऽनलव्यक्तिभेदेन भिन्ना । पृथिवीत्व-वायुत्वा-ऽग्नित्वाख्या तया नियमः क्रियते। तत्र पृथिवीत्वनियमेनाधोगतिर्लोष्ठः । यो हि बादरः पृथिवीपरिणामः स सर्वोऽधोगतिः। एवं तिर्यग्गतिर्वायुः । ऊर्ध्वगतिर्दहनः । स्वजातिनियमेनैवमेषामेताः स्वाभाविक्यो गतयो यथा तथा सङ्गविनिर्मुक्तस्य-कर्मकृतस्खलनरहितस्य ऊर्ध्वगौरवात् परिणामविशेषादूर्ध्वमेव सिध्यमानगतिर्भवति । संसारिणस्तु-नरकादिगतिचतुष्टयवर्तिनः संसारे परिभ्रमतः कर्मसङ्गात्-कर्मजनितस्खलनादधस्तिर्यगूज़ चानियमेन गतिर्भवति ॥ किश्चान्यदिति युक्त्यन्तरोपन्याससूचनम् । भा-बन्धच्छेदात्। यथा रज्जुबन्धच्छेदात् पेडाया बीजकोशबन्धनच्छेदाचैरण्डबीजादीनां गतिर्दृष्टा तथा कर्मबन्धनच्छेदात् सिध्यमानगतिः ॥ किश्चान्यत टी-बन्धच्छेदादिति । बध्यते येन रज्ज्वादिना स बन्धः । तस्य छेदः शस्त्रेण त्रोटनं वा । तद् व्याचष्टे-यथा रज्ज्वा गाढमापीड्यापीड्य बद्धायाः कीचकविदलघटितायाः रज्जुबन्धच्छेदादुपरितनपुटस्य गमनमूर्ध्वं दृष्टं बीजकोशबन्धच्छेदाच बीजकोशः फलीफलं वा तस्यास्तु बन्धनं गाढसम्पुटता सवितृकरजालशोषितायाः परिणतिकाले सम्पुटोद्भेदः छेदः। ततश्च एरण्डादिफलभेदे बीजानां गतिर्दृष्टा। तानि तूड्डीयोड्डीय दूरे पतन्ति तथा कर्मबन्धः फलकडाहस्थानीयस्तच्छेदात्-तद्विघटनादनन्तरमेवोर्व सिध्यमानगतिरिति ॥ किश्चान्यदिति विवक्षितार्थप्रसाधनाय हेत्वन्तरमुपादत्ते भा०–तथागतिपरिणामाच । ऊर्ध्वगौरवात् पूर्वप्रयोगादिभ्यश्च हेतुभ्यस्तथाऽस्य गतिपरिणाम उत्पद्यते येन सिध्यमानगतिर्भवति, ऊँवं नास्तिर्यग् वा ॥ टी-तथागतिपरिणामाचेति । तथा-तेन प्रकारेण सर्वकर्मविनिर्मुक्तस्यास्य गतिपरिणामो भवति विगतयोगस्यापि । चशब्दः समुच्चये । एभ्यश्च पूर्वोक्तहेतुभ्यः-ऊर्ध्वगौरवात् पूर्वप्रयोगादिभ्यश्च गतिपरिणाम उत्पद्यते येन सिध्यमानगतिर्भवतीति । १ 'वाद्यादीनां' इति ग-पाठः। २ 'संयोगा०' इति ग-पाठः। ३ “ हेम' इति ज-पाठः । ४ 'ऊर्ध्वमेव भवति' इति घ-पाठः। Jain Education International. For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy