SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ३०० तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १० मुक्तिगमने सूत्रम्-पूर्वप्रयोगाद्, असङ्गत्वादू, बन्धच्छेदात्, तथाहेतवः गतिपरिणामाच्च तद्गतिः ॥ १०-६॥ भा०-पूर्वप्रयोगात् । यथा हस्तदण्डचक्रसंयुक्तसंयोगात् पुरुषप्रयत्नतश्चाविद्धं कुलालचक्रमुपरतेष्वपि पुरुषप्रयत्नहस्तदण्डचक्रसंयोगेषु पूर्वप्रयोगाद् भ्रमत्येवा संस्कारपरिक्षयात् । टी०-उपरतकर्तृव्यापाराद् यथा कुलालचक्रं 'हस्तदण्डचक्रसंयुक्तसंयोगात्' हस्तेन दण्डः संयुक्तः, दण्डेन चक्रं संयुक्त संयुक्तसंयोगः तस्मात् पुरुषप्रयत्नतश्च-पुरुषपरिस्पन्दाच आविद्धं-वेगितं प्रेरितं उपरतेष्वपि पुरुषव्यापारादिषु पूर्वप्रयोगात् हस्तादिव्यापारप्रेरणाद् भ्रमत्येव आ संस्कारपरिक्षयात्। संस्कारः-अनवरतक्रियाप्रबन्धः। दृष्टान्तेन दार्टान्तिकमर्थं समीकुर्वन्नाह भा०-एवं यः पूर्वमस्य यत्कर्मणा प्रयोगो जनितः स क्षीणेऽपि कर्मणि गतिहेतुर्भवति । तत्कृता गतिः । किश्चान्यत् टी०–एवं यः पूर्वमस्येत्यादि । योगनिरोधाभिमुखस्य यत् कर्म-क्रिया तेन कर्मणा यः प्रयोगो जनितः स क्षीणेऽपि कर्मणि अविच्छिन्नसंस्कारत्वात् योगाभावेऽपि गतिहेतुभवति । तेन हेतुना क्रियते गतिरित्यर्थः। किश्चान्यदिति द्वितीयं हेत्वन्तरमुपन्यस्यति भा०-असङ्गत्वात् । पुद्गलानां जीवानां च गतिमत्त्वमुक्तं, नान्येषां द्रव्याणाम् । तत्राधोगौरवधर्माणः पुद्गलाः, ऊर्ध्वगौरवधर्माणो जीवाः । एष स्वभावः । टी०-असङ्गत्वादिति । सङ्गः-स्खलनं तद्भावः सङ्गत्वं, स्खलितत्वमित्यर्थः। न सङ्गत्वमसङ्गत्वम्-अस्खलितत्वं तस्मादसङ्गत्वात् सिद्धस्योर्ध्व गतिः सिद्धा । न हि स्वाभाविक्या गत्या गच्छन्नूवं कचित् स्खलनमासादयति । एतब्याख्यानायाह-पुद्गलानामित्यादि। पूरणाद् गलनाच पुद्गलाः-परमाणुप्रभृतयः। जीवास्तु ज्ञानदर्शनोपयोगलक्षणाः। एषां पुद्गलजीवानां गतिमत्त्वमुक्तं, नान्येषां-धमोधमोकाशद्रव्याणाम्। तत्र स्वभावत एव अध:अधस्तात् गौरवं भारिकत्वं, परिणामविशेषः। गौरवं धर्मो येषां ते गौरवधर्माणः पुद्गलाः ऊर्ध्वगौरवधर्माणो जीवा इति । जीवानामपि तादृशं गौरवं परिणामविशेषो लाघवं येषामिति । एवंविधं तेषां गौरवं विशिष्टं येनोवं गच्छन्ति एषा(प ?) पुद्गलानां च स्वभावः। . १ 'चक्रसंयोगात् ' इति ग-पाठः । २ · मस्य कर्मणा' इति घ-पाठः। ३ 'मिख्यस्य ' इति च-पाठः । ४ 'गतित्व' इति ग-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy