Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra
________________
३०४
तत्त्वार्थाधिगमसूत्रम् ।
[अध्यायः १० तिष्ठति सर्वार्थान सोऽत्यन्तं पश्यंस्तथा विजानंश्च । नास्ति स्वभावविगमो न तु सर्वस्यापि भावस्य ॥४॥ घातीनि तु कर्माणि स्वभावजातान् गुणान् विवृण्वन्ति । तदभावात् स्वाभाविकगुणभावो भवति न तु सिद्धः ॥५॥ यदि च स्वभावविगमो नेष्टः कस्मात् स निष्क्रियो भवति । इति वा चोचं प्रोक्तं यत्स्पन्दस्तत्स्वभावत्वम् ॥ ६॥ कार्याभावाच्च पुनर्न स्पन्दस्तस्य विद्यतेऽत्यन्तम् । प्रायोगिकोऽप्ययुक्तः स्पन्दः कर्मप्रमुक्तस्य ॥७॥ विषयैश्च तस्य नार्थः क्षुत्-तृट्-स्वेदादि-मोहबाधानाम् । रागादीनां च तथाऽभावादुपयोगहेतूनाम् ॥ ८॥ एतेन व्याख्यातो भाषण-चक्रमण-चिन्तनादीनाम् ।
चेष्टानां सिद्धस्याभावो विशरीरवाङ्मनसः ॥९॥" एवं तेषां मुक्तात्मनां "पूर्वप्रयोगादिभियुक्तिस्तद्गतिः” इति वचनात् तेषां गतिः सिद्धेति ॥ ६॥
त एते सिद्धान्तज्ञेन सिद्धाः क्षेत्रादिभिर्वादशमिरनुयोगद्वारैरनुगन्तव्याः “प्रमाणनयैरधिगमः" (अ०१, सू० ६) इति वचनादित्याह
सूत्रम्-क्षेत्र काल-गति-लिङ्ग-तीर्थ-चारित्र प्रत्येकसिद्धस्य १२ बुद्धबोधित-ज्ञाना-ऽवगाहना-ऽन्तर-सङ्ख्या-ऽल्पबहुत्वतः अनुयोगद्वाराणि
साध्याः ॥ १०-७॥ ____टी.-अथवा अमी सिद्धाः परिनिवृत्तदोषाः कार्मणशरीरौपशमिकादिभावनिरुपाख्याः किं पर्यायान्तरेण व्यपदेष्टुमशक्या एव आहोस्विदतीतव्यवहारा एव हि निर्धार्या इति ?॥ उच्यते
-शक्यन्त एव व्यपदेष्टुं, यस्मात् ते खलु व्यवजिहीषेद्भिः प्रत्युत्पन्नभूताथोनुग्रहतन्त्रनयद्वितयसामर्थ्य विशेषवद्भिः श्रुतज्ञानाहितदाढ्यैानदर्शनचरणाप्रच्युतमार्गस्तत्त्वप्रतिपत्त्यर्थमात्महितमादधानः क्षेत्रादिद्वारैरनुगमनीया इत्याह-क्षेत्रकाल इत्यादि । क्षेत्रादीनां अल्पबहुत्वान्तानां द्वन्द्वः । द्वन्द्वसमासाभिनिवृत्ताच प्रातिपदिकात् तृतीयार्थे तसिः। सिद्धिविशेषस्यानेकाश्रयत्वात् साध्यवचनम् । क्षेत्रादीनि च द्वादशापि द्वाराणि प्रतिपदं दर्शयति भाष्येण
भा०-क्षेत्रं, कालः, गतिः, लिङ्ग, तीर्थ, चारित्रं, प्रत्येकबुद्धबोधितः, ज्ञानं, अवगाहना, अन्तरं, सङ्ख्या, अल्पबहुत्वमित्येतानि द्वादशानुयोगबाराणि सिद्धस्य भवन्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472