Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 399
________________ सूत्रं ४ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् २९७ नामकर्मप्रकृतयश्च त्रयोदश, दर्शनावरणप्रकृतयश्च तिस्रः । क्रमेणानेनाप्रत्याख्यानाः क्रोधाद्यथत्वारः, प्रत्याख्यानावरणाः क्रोधादयश्चत्वारः, नरकगतिः, नरकगत्यानुपूर्वी, तिर्यग्गतिः, तिर्यग्गत्यानुपूर्वी, एक-द्वि-त्रि- चतुरिन्द्रियजातयः, आतपं, उद्योतं, स्थावरं, सूक्ष्मं, साधारणं च । निद्रानिद्रा प्रचलाप्रचला स्त्यानर्द्धिः । ततो नपुंसक - खीवेदौ हास्य- रत्य - रति-शोक-भय- जुगुप्साः पुरुषवेदश्च संज्वलनक्रोधमानमाया इति सूक्ष्मसम्परायस्थाने चरमसमये संज्वलन लोभः क्षीणः । ततः क्षीणकषायस्थाने निद्रा - प्रचले द्वे द्विचरमसमये क्षीणे । चरमसमये तु प्रकृतयश्चतुर्दश क्षीणाः - ज्ञानदर्शनावरणविघ्नानि पञ्च चतु:[:- पञ्चभेदानि । अयोगिकेवलिनो द्विचरमसमये नामप्रकृतयः पञ्चचत्वारिंशत् क्षीणाः । ताचेमाः - देवगतिः, औदारिकादिशरीरपञ्चकं, संस्थानषट्कं, अङ्गोपाङ्गत्रयं, संहननषट्कं, वर्ण- गन्ध-रस- स्पर्शचतुष्टयं, मनुष्यदेवगत्यानुपूर्व्या, अगुरुलघु, उपघातं, पराघातं, उच्छ्वासः, प्रशस्त विहायोगतिः, अप्रशस्त विहायोगतिः, अपर्याप्तं, प्रत्येकं, स्थिरं, अस्थिरं, शुभं, अशुभं, दुर्भगं, सुस्वरं, दुःस्वरं, अनादेयं, अयशः कीर्तिः, निर्माणम् । बाह्ये च द्वे अन्यतरवेदनीये नीचैर्गोत्राख्ये क्षीणे तीर्थकराऽयोगकेवलिनश्चरमसमये द्वादश क्षीणा:अन्यतरवेद्यं, उच्चैर्गेत्रिं, मनुष्यायुः, नव च नामप्रकृतयः । तद्यथा - मनुष्यगति-पञ्चेन्द्रियजाति-स- बादर-पर्याप्त - सुभगाऽऽदेय-यशः कीर्ति - तीर्थकराख्याः । अतीर्थकराज्योगकेवलिनस्तु चरमसमये एता एवैकादश क्षीणाः तीर्थकरनामवर्जा: । मनुष्यायुश्चैकमेव बद्धं, न शेषाणीत्येकमेव गण्यते । एवं तत्क्षयसमकालमेव-सकलकर्मक्षयतुल्यकालमेव औदारिकशरीरवियुक्तस्यास्य मनुष्यजन्मनः प्रहाणम् - उच्छेदः । बन्धहेत्वभावाच्चो तर जन्मनोऽप्रादुर्भावः । एषाऽवस्थितिः पूर्वजन्मन उच्छेद उत्तरजन्माप्रादुर्भावः । केवल आत्मा ज्ञानाद्युपयोगलक्षणः शुद्धः, इत्येषावस्था कृत्स्नकर्मक्षयलक्षणो मोक्ष इत्याख्यायते । अवस्थाग्रहणमा - स्मानुच्छेदप्रतिपादनार्थमिति ॥ ३ ॥ -S कस्मिन् गुणस्थाने कस्याः प्रकृतेः क्षयः ? किञ्चान्यदित्यनेन तस्यामवस्थायां प्रष्टव्यशेषमाशङ्कते - " औपशमिक क्षायिक भावौ मिश्रच जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च " ( अ० २, सू० १ ) इत्युक्तं जीवस्वतत्वम् । तत् किं तस्यामवस्थायां सकलमेव परिशटति उत नैव क्षीयते किञ्चित् आहोस्वित् किश्चन परिशटति किञ्चिन्नेति सन्देहापनयनार्थमाह सूत्रकारः - सूत्रम् - औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवलसम्यक्त्व-ज्ञानदर्शन - सिद्धत्वेभ्यः ॥ १०-४ ॥ 'रिकशरीर' इति ङ-पाठः । १ ४ ' गम्यते ' इति ङ-पाठः । ३८ Jain Education International २ ' तरवेद्ये' इति ङ-पाठः । ३ ' सुभगोदय' इति ङ-पाठः । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472