________________
सूत्रं ४ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
२९७
नामकर्मप्रकृतयश्च त्रयोदश, दर्शनावरणप्रकृतयश्च तिस्रः । क्रमेणानेनाप्रत्याख्यानाः क्रोधाद्यथत्वारः, प्रत्याख्यानावरणाः क्रोधादयश्चत्वारः, नरकगतिः, नरकगत्यानुपूर्वी, तिर्यग्गतिः, तिर्यग्गत्यानुपूर्वी, एक-द्वि-त्रि- चतुरिन्द्रियजातयः, आतपं, उद्योतं, स्थावरं, सूक्ष्मं, साधारणं च । निद्रानिद्रा प्रचलाप्रचला स्त्यानर्द्धिः । ततो नपुंसक - खीवेदौ हास्य- रत्य - रति-शोक-भय- जुगुप्साः पुरुषवेदश्च संज्वलनक्रोधमानमाया इति सूक्ष्मसम्परायस्थाने चरमसमये संज्वलन लोभः क्षीणः । ततः क्षीणकषायस्थाने निद्रा - प्रचले द्वे द्विचरमसमये क्षीणे । चरमसमये तु प्रकृतयश्चतुर्दश क्षीणाः - ज्ञानदर्शनावरणविघ्नानि पञ्च चतु:[:- पञ्चभेदानि । अयोगिकेवलिनो द्विचरमसमये नामप्रकृतयः पञ्चचत्वारिंशत् क्षीणाः । ताचेमाः - देवगतिः, औदारिकादिशरीरपञ्चकं, संस्थानषट्कं, अङ्गोपाङ्गत्रयं, संहननषट्कं, वर्ण- गन्ध-रस- स्पर्शचतुष्टयं, मनुष्यदेवगत्यानुपूर्व्या, अगुरुलघु, उपघातं, पराघातं, उच्छ्वासः, प्रशस्त विहायोगतिः, अप्रशस्त विहायोगतिः, अपर्याप्तं, प्रत्येकं, स्थिरं, अस्थिरं, शुभं, अशुभं, दुर्भगं, सुस्वरं, दुःस्वरं, अनादेयं, अयशः कीर्तिः, निर्माणम् । बाह्ये च द्वे अन्यतरवेदनीये नीचैर्गोत्राख्ये क्षीणे तीर्थकराऽयोगकेवलिनश्चरमसमये द्वादश क्षीणा:अन्यतरवेद्यं, उच्चैर्गेत्रिं, मनुष्यायुः, नव च नामप्रकृतयः । तद्यथा - मनुष्यगति-पञ्चेन्द्रियजाति-स- बादर-पर्याप्त - सुभगाऽऽदेय-यशः कीर्ति - तीर्थकराख्याः । अतीर्थकराज्योगकेवलिनस्तु चरमसमये एता एवैकादश क्षीणाः तीर्थकरनामवर्जा: । मनुष्यायुश्चैकमेव बद्धं, न शेषाणीत्येकमेव गण्यते । एवं तत्क्षयसमकालमेव-सकलकर्मक्षयतुल्यकालमेव औदारिकशरीरवियुक्तस्यास्य मनुष्यजन्मनः प्रहाणम् - उच्छेदः । बन्धहेत्वभावाच्चो तर जन्मनोऽप्रादुर्भावः । एषाऽवस्थितिः पूर्वजन्मन उच्छेद उत्तरजन्माप्रादुर्भावः । केवल आत्मा ज्ञानाद्युपयोगलक्षणः शुद्धः, इत्येषावस्था कृत्स्नकर्मक्षयलक्षणो मोक्ष इत्याख्यायते । अवस्थाग्रहणमा - स्मानुच्छेदप्रतिपादनार्थमिति ॥ ३ ॥
-S
कस्मिन् गुणस्थाने कस्याः प्रकृतेः क्षयः ?
किञ्चान्यदित्यनेन तस्यामवस्थायां प्रष्टव्यशेषमाशङ्कते - " औपशमिक क्षायिक भावौ मिश्रच जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च " ( अ० २, सू० १ ) इत्युक्तं जीवस्वतत्वम् । तत् किं तस्यामवस्थायां सकलमेव परिशटति उत नैव क्षीयते किञ्चित् आहोस्वित् किश्चन परिशटति किञ्चिन्नेति सन्देहापनयनार्थमाह सूत्रकारः -
सूत्रम् - औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवलसम्यक्त्व-ज्ञानदर्शन - सिद्धत्वेभ्यः ॥ १०-४ ॥
'रिकशरीर' इति ङ-पाठः ।
१
४ ' गम्यते ' इति ङ-पाठः ।
३८
Jain Education International
२ ' तरवेद्ये' इति ङ-पाठः । ३ ' सुभगोदय' इति ङ-पाठः ।
For Private & Personal Use Only
www.jainelibrary.org