SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ २९८ तत्त्वार्थाधिगमसूत्रम् . [ अध्यायः १० टी०-'उपशमे भवः उपशमेन वा निवृत्तः औपशमिकः, स आदिर्येषां ते इमे औपशमिकादयः। आदिग्रहणेन क्षायिक-क्षायोपशमिको-दयिक-पारिणामिका गृहीताः । सेत्स्यल्लक्षणं भव्यत्वं औपशमिकादयश्च भव्यत्वं च औपशमिकादिभव्यत्वानि । एषामभावः औपशमिकादिभव्यत्वाभावः । चशब्दः समुच्चये । औपशसिकाद्यभावाद् भव्यत्वाभावाच मुक्तात्मा भवति । किं सर्वेषामौपशमिकादीनामभावः ? । तदुच्यते-अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः शेषा न सन्ति । औपशमिक-क्षायोपशमिको-दयिकाः सर्वथा न सन्त्येव । क्षायिके तु भावे केवलसम्यक्त्वं, क्षायिकसम्यक्त्वमित्यर्थः। केवलज्ञानं केवलदर्शनं सिद्धत्वं च सम्भवति मुक्तात्मनि । पारिणामिके तु भावे भव्यत्वमेव केवलं सिद्धे न सम्भवति । तच्चौपशमिकादिग्रहणाद भव्यत्वं सगृहीतमेव, किमर्थ पुनभेव्यत्वग्रहणम् ? उच्यते-पारिणामिकभावे भव्यत्वमेव केवलं सिद्धे न समस्ति, शेषाः पारिणामिकाः प्रायेण सन्तीति ज्ञापनार्थम् । अस्तित्व-गुणवत्त्वा-ऽनादित्वा-ऽसङ्ख्येयप्रदेशवत्त्व-नित्यत्वादयः सन्त्येव । एतदनुसारिभाष्यम् भा०–औपशमिक-क्षायोपशमिको दयिक-पारिणामिकानां भावानां भव्यत्वस्य चाभावान्मोक्षो भवति अन्यत्र केवलसम्यक्त्व केवलज्ञान-केवलदर्शन-सिद्धत्वेभ्यः । एते ह्यस्य क्षायिका नित्यास्तु मुक्तस्यापि भवन्ति ॥४॥ टी०-औपशमिकेत्यादि । औपशमिकादयः कृतद्वन्द्वाः षष्ठीबहुवचनेन निर्दिष्टाः । एषामभावाद् भव्यत्वाभावाच मोक्षः । अन्यत्र केवलसम्यक्त्वादिभ्यः इत्युपपदलक्षणा पञ्चमी । दर्शनसप्तकक्षयात् क्षायिकं केवलसम्यक्त्वं, समस्तज्ञानावरणक्षयात् क्षायिक केवलज्ञानं अशेषदर्शनावरणक्षयात् क्षायिकं केवलदर्शनं, समस्तकर्मक्षयात् सिद्धत्वमित्येते क्षायिका भावा यस्मान्नित्यास्तस्मान्मुक्तस्यापि भवन्तीति ॥ ४ ॥ स पुनर्मुक्तात्मा यत्र मुक्तः समस्तकर्मभिः किं तत्रैवावतिष्ठते उतान्यत्रेति पृष्टे जगाद सूत्रम्-तदनन्तरमूर्ध्वं गच्छत्या लोकान्तात् ॥ १०-५॥ भा०–तदनन्तरमिति कृत्स्नकर्मक्षयानन्तरं औपशमिकाद्यभावानन्तरं चेत्यर्थः । मुक्त ऊर्ध्वं गच्छत्या लोकान्तात् । कर्मक्षये देहवियोग-सिध्यमानगतिलोकान्तप्राप्तयो ह्यस्य युगपदेकसमयेन भवन्ति । टी-तच्छब्देन कृत्स्नकर्मक्षयः परामृश्यते औपशमिकादिभव्यत्वाभावो वा । तदनन्तरमिति कृत्स्नकर्मक्षयानन्तरं अनु सन्ततमेव मुक्तः सन्नूर्ध्वमेव गच्छति । कियतीं १' उपशमनेन' इति ग-पाठः। २ 'सिद्धा न सन्ति' इति उ-पाठः। ३ 'कादीनां ' इति ग-पाठः । ४ 'केवलदर्शनं' इति उ.पाठः । ५ स्य ' इति घ-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy