SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३९६ तत्वार्थाधिगमसूत्रम् [ अध्यायः १० निष्ठा । बुध्यतेरकर्मकत्वात् सुप्तविबुद्धवल्लोके प्रयोगदर्शनादकर्मकत्वम् । बुध्यत इति बुद्ध:, ज्ञानस्वभाव इत्यर्थः । केवलज्ञानेन सर्वं जानीत इति सर्वज्ञः । केवलदर्शनेन सर्वं पश्यतीति सर्वदर्शी | रागद्वेषमोह जिज्जिनः । केवली केवलज्ञानदर्शनसम्भवात् । तत उत्पन्नकेवलज्ञानः प्रतनूनि - स्वल्पानुभावानि शुभविपाकानि च प्रायश्चत्वारि कर्माण्यवशेषाणि यस्य वेद्याऽऽयुनम-गोत्राणि स चायुषः कर्मणः संस्कारवशात्, प्रतिक्षणमनुवृत्तिः संस्कारः, तद्वशाद् विहरति भव्यजनकुमुदवनबोधनाय शीतरश्मिरिव कदाचिद् ध्याति विहरति तिष्ठन्नपि वा । विविधं रजो हरतीति विहरति ॥ २ ॥ ततोऽस्य विहरत उक्तेन विधिना आयुष्ककर्मपरिसमाप्तावितराण्यपि त्रीणि कर्माणि क्षीयन्ते । अतः -- सूत्रम् - कृत्स्नकर्मक्षयो मोक्षः ॥ १०-३ ॥ टी० - कृत्स्नं सम्पूर्ण निरवशेषं ज्ञानावरणाद्यन्तरायपर्यवसानमष्टविधं मूलप्रकृतिवाच्य, उत्तरप्रकृतीनां तु द्वाविंशत्युत्तरं शतम् । एतत् कृत्स्नं कर्म तस्य क्षयः - शाटः आत्मप्रदेशेभ्योsपगमः । कर्मराशेर्मोक्षः, आत्मनः स्वात्मावस्थानमिति ॥ भा०- - कृत्स्नकर्मक्षयलक्षणो मोक्षो भवति । टी० - कृत्स्नकर्मक्षयलक्षण इत्यादि भाष्यम् । कृत्स्नकर्मक्षयो लक्षणं यस्य मोक्षस्य । कृत्स्नकर्मवित्या आत्मा मुक्त इति लक्ष्यते । स एव मोक्षः सकलकर्म विमुक्तस्य ज्ञानदर्शनोपयोगलक्षणस्यात्मनः स्वात्मन्यवस्थार्न मोक्षः, न पुनरात्माभाव एव । परिणामिनो निरन्वयनाशे न तेदुपपत्तिदृष्टान्तौ परिणामित्वादेव ज्ञानाद्यात्मा न सोऽभावः । स च कर्मणामपगमः क्रमेणामुनेति दर्शयति भा०- पूर्व क्षीणानि चत्वारि कर्माणि पश्चाद् वेदनीय- नाम- गोत्रा - ssयुष्कक्षयो भवति । तत्क्षयसमकालमेवौदारिकशरीरवियुक्तस्यास्य जन्मनः प्रहाणम् । हेत्वभावाच्चोत्तरस्याप्रादुर्भावः । एषाऽवस्था कृत्स्नकर्मक्षयो मोक्ष इत्युच्यते ॥ ३ ॥ किञ्चान्यत् टी० – केवलज्ञानोत्पत्तेः प्राक् पूर्वं मोहनीयज्ञानदर्शनावरणान्तरायाख्यानि चत्वारि धातिकर्माणि क्षीणानि । ततः केवलज्ञानोत्पत्तिः पश्चाद् वेदनीय- नाम- गोत्रा ऽऽयुष्कक्षयो भवतीति । केवलज्ञानोत्पादात् पश्चाद्वेदनीयादीनि चत्वारि कर्माणि क्षयं प्रतिपद्यन्ते भवधारणीयानि । तत्र का प्रकृतिः क गुणस्थाने क्षीणेति प्रपश्चेन प्रदर्श्यते - अविरतसम्यग्दृष्टि-देशयति-प्रमत्ताप्रमत्तस्थानानामन्यतमस्थाने मोहनीयप्रकृतयः सप्त क्षीणाः, अनन्तानुबन्धिनश्चत्वारः सम्यक्त्व-मिथ्यात्व-तदुभयानि च । अतोऽनिवृत्तिस्थाने मोहनीयप्रकृतयो विंशतिः क्षीणाः, १' तदुत्पत्ति' इति पाठः । Jain Education International समा For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy