________________
२९५
सूत्र २]
स्वोपज्ञभाष्य टीकालङ्कृतम् . भा०-मिथ्यादर्शनादयो बन्धहेतवोऽभिहिताः (पृ० १२१)। तेषामपि तदावरणीयस्य कर्मणः क्षयादभावो भवति सम्यग्दर्शनादीनां चोत्पत्तिः । "तत्त्वार्थश्रद्धानं सम्यग्दशनं" (अ० १, सू०२), "तन्निसर्गादधिगमाद् वा" (अ० १, सू० ३) इत्युक्तम् ॥
टी०-मिथ्यादर्शनादय इत्यादि भाष्यम्। प्रागभिहिता मिथ्यादर्शनादयस्तेषामपि मिथ्यादर्शनादीनां बन्धहेतूनां तदावरणीयस्य कर्मणः क्षयादभावो भवति । मिथ्यादर्शनं अज्ञानविशेषः । ज्ञानावरणीयेन कर्मणा ज्ञानमेवाच्छादितं सदज्ञानमुच्यते । अन्यथा व्यवस्थितान् जीवादिपदार्थान् अन्यथा-वैपरीत्येन प्रतिपद्यते, अत आह-तदावरणीयस्य कर्मणः क्षयादात्यन्तिकात् तस्य मिथ्याज्ञानस्य यदावरणं तदभावान्मिथ्यादर्शनाभावः । नाप्यविरतिप्रमाद-कषाया-दर्शनावरणमोहक्षयात् योगनिरोधकाले च योगनिमित्तोऽप्यपैति बन्धः। इत्थं बन्धहेत्वभावे सति निर्जरणमुपचितस्य कर्मणोऽन्त्यकाले समस्ति । सम्यग्दर्शनज्ञानावरणानां चोत्पत्तिः प्रागभिहितानामुपलक्षयति-"तत्त्वार्थश्रद्धानं सम्यग्दर्शनं" (अ०१, सू०२) "तनिसर्गादधिगमाद् वा" (अ० १, सू० ३) इत्युक्तैव न पुनरपि व्याख्यायते । अथवा सर्वमेतत् पूर्वमुक्तम् ।
भा०--एवं संवरसंवृतस्य महात्मनः सम्यग्व्यायामस्याभिनवस्य कर्मणः उपचयो न भवति। ___टी०-एवं संवरसंवृतस्येत्यादि । एवम् उक्तेन प्रकारेण बन्धहेत्वसम्भव एव संवरस्तेन संवृतस्य-स्थगितसकलास्रवद्वारस्य महात्मनः परमातिशयसम्पन्नस्य सम्यग्व्यायामस्यसम्यक्रियानुष्ठायिनः छद्मस्थस्य सयोगिकेवलिनश्च निरुद्धसकलयोगस्य च अभिनवस्यापूर्वकर्मणः उपचयो बन्धो न भवति॥
भा०-पूर्वोपचितस्य च यथोक्तैर्निर्जराहेतुभिरत्यन्तक्षयः । ततः सर्व द्रव्यपर्यायविषयं पारमैश्वर्यमनन्तं केवलं ज्ञानदर्शनं प्राप्य शुद्धो बुद्धः सर्वज्ञः सर्वदर्शी जिनः केवली भवति । ततः प्रतनुशुभचतुःकोवशेषः आयुःकर्मसंस्कारवशाद् विहरति ॥ २ ॥ ततोऽस्य
टी०-पूर्वोपचितस्य-प्राग्बद्धस्य क्षयो यथोक्तैस्तपोऽनुष्ठानादिमिनिर्जराहेतुभिरात्यन्तिको घातिकर्मक्षयः, इतरस्तु भवधारणीयक्षयः। ततो घातिकर्मक्षयात् समनन्तरमेव समस्तद्रव्यपर्यायविषयमित्यनेनैतावदेव ज्ञेयमिति सूचयति । परं-प्रकृष्टमैश्वर्य-विभूतिः परम्असाधारण ईश्वरत्वं ऐश्वर्य अनन्तमपर्यवसानत्वादनुच्छेदित्वात् केवलम्-असहायं मत्यादिरहितं ज्ञानं च दर्शनं च प्राप्य लब्ध्वा शुद्धो धोतोऽपनीतसकलकर्ममलः । बुद्ध इति कर्तरि
१ 'सम्यग्दर्शनज्ञानावरणाना' इति ग-पाठः। २ 'अपगत ' इति ग-पाठः।.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org