________________
२९४
तत्वार्थाधिगमसूत्रम् •
[ अध्यायः १०
अभावोऽपि हि निमित्तं भवति यथा विपक्षे हेतुरभावद्वारेण गमकः । तत्क्षयादुत्पद्यत इति, घातिकर्मक्षयाज्जायत इत्यर्थः । अतस्तद्विगमलक्षणो गुणो हेतुः । "विभाषा गुणेऽस्त्रियां" ( पा० अ० २, पा० ३, सू० २५ ) इति ॥
भा० - हेतौ पञ्चमीनिर्देशः । मोहक्षयादिति पृथकरणं क्रमप्रसिद्ध्यर्थम् । यथा - गम्येत पूर्व मोहनीयं कृत्स्नं क्षीयते । ततोऽन्तर्मुहूर्त छद्मस्थवीतरागो भवति । ततोऽस्य ज्ञान दर्शनावरणान्तरायप्रकृतीनां तिसृणां युगपत् क्षयो भवति । ततः केवलमुत्पद्यत इति ॥ १ ॥
टी० - हेतौ पञ्चमीनिर्देशः । मोहक्षयादिति । सापेक्षे कर्मचतुष्टये व्यपेते निरावरणो जीवस्वभावो ज्ञानदर्शनलक्षणः सदा चकास्ति । तस्य च सापेक्षकर्मविगमो निमित्तं किरणमालिन इवातिबलाभ्रपटलप्रच्छादितमण्डलस्य सङ्कुचित किरणकलापस्य तदपगमे निरावरणसमस्तगभस्तिविस्तरणवद् विकसति ज्ञानं दर्शनं च । मोहक्षयादिति पृथक्करणं प्रतिविशिष्टक्रमप्रसिद्ध्यर्थम् । क्रमप्रसिद्धिः यथाऽऽगमे तत् प्राङ्मोहनीयक्षय एव सर्वस्य मुमुक्षोः । ततश्च मोहसागरमुत्तीर्यान्तर्मुहूर्तमात्रं विश्राम्यति छद्मस्थवीतरागावस्थः । ततोऽस्य ज्ञानदर्शनावरणान्तरायक्षयो युगपदेव भवति । तत्समनन्तरमेव च केवलज्ञानं केवलदर्शनं चोपजनमासादयति । यथोक्तमागमे वीसमिऊण नियंठो” इत्यादि “ चरिमे नाणावर " इत्यादि ॥ १ ॥
भा० – अत्राह-उक्तं ( पृ० २९३ ) मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलमिति । अथ मोहनीयादीनां क्षयः कथं भवतीति ? । अत्रोच्यते
टी० – अत्राह – उक्तमित्यादिनोत्तरसूत्रं सम्बध्नाति । मोहक्षयात् केवलज्ञानोत्यत्तिः । अथैषां मोहादीनां क्षयः कथं केन प्रकारेण भवतीति । अयमभिप्रायः प्रश्नयतः - यावदपि सकषाययोगस्तावदपि कर्म सततं बध्नाति कषाययोगप्रत्ययम् । तच्च प्रतिक्षणं मन् कथं क्षयं करोतीति ? । अत्रोच्यत इत्याह
कर्मपरिक्षये हेतु सूत्रम् — बन्धहेत्वभाव - निर्जराभ्याम् ।। १०-२ ॥
टी० - आत्मप्रदेशानां कर्मपुद्गलानां चान्योन्यानुगतलक्षणः क्षीरोदकवद् बन्धः । तस्य हेतुर्मिथ्यादर्शनादिपञ्चविधः । तस्य हेतोरभावादपूर्वकर्मागमो नास्ति । प्रथमबद्धस्य च निर्जरणं निर्जरा - आत्मप्रदेशेभ्यः परिशटनं कर्मणः । बन्धहेत्वभावश्च निर्जरा च बन्धहेत्वभावनिर्जरे ताभ्यां हेतुभ्यां कर्मपरिक्षयः ॥
१ ' तथा विपक्षे ' इति ङ-पाठः । २-३ छाया
विश्रामयित्वा निर्ग्रन्थः; चरमे ज्ञानावरणम् । ४' सन्तानं ' इति ग-पाठः । ५ ' प्रदेशिनां ' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org