________________
श्रीपरमगुरुभ्यो नमः। दशमोऽध्यायः १०
उपक्रमः
टी-निर्दिष्टे संवर-निर्जरे "आस्रवनिरोधः संवरः" (अ० ९, सू० १), " तपसा . निर्जरा च" (अ० ९, सू० ३) इति । सम्प्रति तत्फलं मोक्षः तं वक्ष्यामः ।
स च केवलज्ञानोत्पत्तिमन्तरेण न जातुचिर्दभूद् भवति भविष्यति । अतः केवलोत्पत्तिमेव तावद् वक्ष्यामःसूत्रम्-मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच
केवलम् ॥ १०-१॥ टी-अथवा तपसा निर्जरातश्च कर्मणां केवलज्ञानमुत्पद्यते । तत् केषां कर्मणां निर्जरातः केन वा क्रमेण निर्जरणे सति केवलज्ञानमाविर्भवतीति ? | तानि कर्माणि क्रम चानेव सूत्रेण दर्शयति-मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच केवलम् ॥ ...
भा०–मोहनीये क्षीणे ज्ञानदर्शनावरणान्तरायेषु क्षीणेषु च केवलज्ञानदर्शनमुत्पद्यते । आसां चतसृणां प्रकृतीनां क्षयः केवलस्य हेतुरिति । तत्क्षयादुत्पद्यते इति।
टी-मोहनान्मोहोऽष्टाविंशतिभेदः पूर्वोक्तः (पृ० १४२)। तस्य क्षयो-निरवशेषतः परिशाटनमात्मप्रदेशेभ्यः । क्षीणे च सकलभेदमोहनीये ज्ञानावरणदर्शनावरणान्तरायेषु च पश्च-चतुः-पञ्चभेदेषु युगपत् क्षीणेषु-निरवशेषीकृतेषु केवलज्ञानं दर्शनमाविर्भवतिसमस्तद्रव्यपर्यायपरिच्छेदिघातिकर्मविगमादुत्पद्यते । यथोक्तम्
" तस्य हि तस्मिन् समये, केवलमुत्पद्यते गततमस्कम् । ज्ञानं च दर्शनं चावरणद्वयसङ्क्षयाच्छुद्धम् ॥ १॥-आर्या चित्रं चित्रपटनिभ, त्रिकालसहितं ततः स लोकमिमम् ।
पश्यति युगपत् सर्वं, सालोकं सर्वभावज्ञाः ॥२॥" आसामिति सूत्रनिर्दिष्टानां कियतीनाम् ? चतसृणां कर्मप्रकृतीनां-कर्मस्वभावानां मोहन आच्छादनं विनकारित्वं चेति स्वभावाः । क्षयो-निःशेषसादः। केवलस्य ज्ञानस्य दर्शनस्य च । हेतुः कारणं निमित्तमिति पर्यायाः । फलसाधनयोग्यः पदार्थो हेतुरिति भाषितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org