________________
२९२
तत्त्वार्थाधिगमसूत्रम् -
[ अध्यायः १ ओ ततियं अणंतभागममहियं जाव चरिमं अणंतभागमभहियं "। एवं संयमस्थानप्ररूपणा । "एतेसिं चेव जहा भणिताणं संजमहाणाणं असंखिज्जाणं समुदएणं जं निप्पज्जा तं कंडगं ति वा अंतरकंडगं ति वा भणइ । एगंमि कंडके केवतियाई संजमहाणाई ? असंखिज्जाई असंखिजाहिं उस्सप्पिणीहि कालओ अवहारंति, खेत्तओ अंगुलस्स असंखिज्जाई भागेणं ॥
सम्प्रति भाष्यभावना क्रियते । पुलाकादिस्थाननिरूपणद्वारेण निदर्शनमात्रमिदं भाष्यभावनार्थमुपन्यस्तं पुलाकस्य कषायकुशीलस्य सर्वजघन्यानि स्थानान्यधः । ततस्तौ युगपदसङ्ख्येयानि स्थानानि गच्छतः, तुल्याध्यवसानत्वात् । ततः पुलाको व्युच्छिद्यते, हीनपरिणामत्वात् । व्युच्छिन्ने पुलाके कषायकुशीलस्त्वेक एवासङ्ख्येयानि स्थानानि गच्छति, वर्धमानपरिणामत्वात् । ततः कषायकुशील-प्रतिसेवनाकुशील-बकुशा युगपदसङ्ख्येयानि स्थानानि प्राप्नुवन्ति । ततश्च बकुशो व्युच्छिद्यते । ततोऽप्यस
ख्येयानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते। ततोऽप्यसङ्ख्येयानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते । एवमेतानि स्थानानि द्रष्टव्यानि । अत ऊर्ध्वमिति कषायकुशीलव्युच्छेदनादुपरि अकषायस्थानानि निर्ग्रन्थः प्रतिपद्यते । सोऽप्यसङ्ख्यातानि गत्वा व्युच्छिचते । अत ऊर्व-निर्ग्रन्थस्थानादुपरि गत्वा निर्ग्रन्थः क्षपितसकलकाशः स्नातको निर्वाणमेवाप्नोति । एषां च पुलाकादीनां संयमलब्धिः संयमस्थानप्राप्तिरुत्तरोत्तरस्यानन्तानन्तगुणा भवतीति भावितमेवेति ॥४९॥
इति श्रीतत्त्वार्थाधिगमेहत्प्रवचनसंग्रहे भाष्यानुसारिण्यां तत्त्वार्थटीकायां
संवरस्वरूपनिरूपको नाम नवमोऽध्यायः समाप्तः ॥९॥
१ एतेषु चैव यथा भणितानां संयमस्थानानाम् असङ्ख्येयानां समुदयेन यत् निष्पद्यते तत् कण्डकमिति वा अन्तरकण्डकमिति वा भणति । एकस्मिन् कण्डके कतिपयानि संयमस्थानानि ? असङ्खयेयानि असङ्ख्याताभिरुत्सर्पिणीमिः कालतोऽवहारन्ति, क्षेत्रतोऽगुलस्य असङ्ख्यातानि भागेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org