________________
. सूत्र ४९] स्त्रोपज्ञभाष्य-टीकालङ्कृतम्
२९१ .... टी--असङख्येयानीत्यादि । स्थानमित्यध्यवसायस्थानं परिणामस्थानं संयमस्थानमिति पर्यायाः । तत्र यावत् सकषायस्तावत् सक्लेशविशोधयोऽवश्यम्भाविन्यः । क्षीणकषायस्य तु विशोधिरेव, न सक्लेशः । तत्र सकषायस्यासङ्ख्येयानि संयमस्थानानि भवन्ति । तत्रैकस्य प्रथमसंयमस्थानस्य पर्यायपरिमाणमिदमागमोक्तम्
"संव्यागासपदेसग्गं सव्वागासपएसेहिं अणंतगुणियं पढम संजमहाणं भवति"। का पुनर्भावना ? उच्यते"सेव्वगयं संमत्तं सुए चरित्ते ण पज्जवा सव्वे । देसविरतिं पडुच्च दोण्ह वि पंडिसेहणं कुज्जा ॥१॥ -आर्या सबद्दव्याणि जतो सबद्दव्वाण पज्जवा जे य । सव्वा णय बोधव्या तिकालविसयम्मि जे भणिया ॥२॥-, सव्वे वि य सद्दहओ सबस्स उवएसतो व संमत्तं ।
तविवरीयं मिच्छत्तं दरिसणं देसियं समए ॥ ३॥ -, एएणं कारणेणं सव्वागासपएसग्गं सव्यागासप्पएसेहिं अणंतगुणियं पढम संजमहाणं पज्जायवग्गेण भवति । ततो एयं चेव पढम संजमहाणं एयप्पमाणपरिणामविसुद्धिनिमित्तेणाधिगतरं भवति । ततो पढमं संजमहाणपरिणामविसुद्धाओ बीयं संजमहाणपरिणामो विसुद्धतरो त्ति काउं पढमसंजमहाणाओ बीयं संजमहाणं अणंतभागमभहियं । एतेण चेव कमेण बीया
१ छाया
सर्वाकाशप्रदेशकं सर्वाकाशप्रदेशैः अनन्तगुणितं प्रथमं संयमस्थानं भवति । २ आवश्यकनियुक्तेरियं ८३०तमी गाथा। तच्छाया 'चैवम्
सर्वगतं सम्यक्त्वं सूत्रे चारित्रे न पर्यवाः सर्वे ।
देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधनं कुर्यात् ॥ ३ 'सेवणे' इति च-पाठः। ४ छाया
सर्वद्रव्याणि यतो सर्वद्रव्याणां पर्यवा ये च। सर्वे नया बोधव्यास्त्रिकालविषये ये भणिताः ॥ सर्वेऽपि च श्रद्धधतः सर्वस्य उपदेशात् वा सम्यक्त्वम् ।
तद्विपरीतं मिथ्यात्वं दर्शनं देशितं समये ॥ तेन कारणेन सर्वाकाशप्रदेशगं सर्वाकाशप्रदेशैरनन्तगुणितं प्रथम संयमस्थानं पर्यायवर्गेण भवति । तत एतत् चैव प्रथमं संयमस्थानं एतत्प्रमाणपरिणामविशुद्धिनिमित्तेन अधिकतरं भवति । ततः प्रथमं संयमस्थानपरिणामविशद्धेर्द्वितीयं संयमस्थानपरिणामो विशुद्धतर इति कृत्वा प्रथमसंयमस्थानाद् द्वितीयं संयमस्थानमनन्तभागमभ्यधिकम् । एतेन चैव क्रमेण द्वितीयात् तृतीयमनन्तभागमभ्यधिकं यावत् चरममनन्तभागमभ्यधिकम् ।
- Jain Education International
For Private & Personal Use Only
www.jainelibrary.org