________________
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ९ सम्परायस्य निर्ग्रन्थ-स्नातकयोश्च शुक्लैव केवला भवति । अयोगः शैलेशीप्रतिपन्नोऽलेश्यो भवति॥
टी०-लेश्याः पूर्वोक्तनिर्वचनाः । उत्तराः पारमर्षक्रमप्रामाण्यात् पुलाकस्य तैजसीपद्म-शुक्लनामानस्तिस्रो भवन्ति । बकुश-प्रतिसेवनाकुशीलयोः सर्वाः । कियन्त्यः ? सर्वाः षडपीत्याह । परिहारविशुद्धिसंयमप्राप्तस्य कषायकुशीलस्य एता एव तिस्रः। सूक्ष्मसम्परायसंयमप्राप्तस्य कषायकुशीलस्य तथा निर्ग्रन्थस्य सयोगस्नातकस्य च त्रयाणामप्येषां शुक्लैव, केवला-अन्यलेश्यानिरपेक्षेति । शैलेशीप्रतिपन्नस्त्वयोगकेवली नियमेनालेश्य एव भवति॥
भा०-उपपातः। पुलाकस्योत्कृष्टस्थितिषु देवेषु सहस्रारे । बकुश-प्रतिसेवनाकुशीलयोहाविंशतिसागरोपमस्थितिष्वारणा-ऽच्युतकल्पयोः । कषायकुशीलनिर्ग्रन्थयोस्त्रयस्त्रिंशत्सागरोपमस्थितिषु देवेषु सर्वार्थसिद्धे । सर्वेषामपि जघन्या पल्योपमपृथक्त्वस्थितिषु सौधर्मे । स्नातकस्य निर्वाणमिति ॥
टी०-उपपात इति उपपत्तिः-जन्मान्तरप्राप्तिः, पूर्वजन्मपरित्यागेन स्थानान्तरप्राप्तिरित्यर्थः । सहस्रारेऽष्टादशसागरोपमा स्थितिरुत्कृष्टा । तत्र पुलाकस्योत्पत्तिर्जन्ममरणोत्तरकालम् । बकुश-प्रतिसेवनाकुशीलयोः अच्युते बाविंशतिसागरोपमस्थितिषूत्पत्तिः । कषायकुशील-निर्ग्रन्थयोः सर्वार्थसिद्धविमाने त्रयस्त्रिंशत्सागरोपमस्थितिषूत्पत्तिः। सर्वेषां पुलाकादीनां शमितकषायाणां प्रथमकल्पे जघन्येन द्विप्रभृत्या नवभ्यः पृथक्त्वपरिभाषात् स्थितिकेषु देवेषूत्पत्तिः । स्नातकस्य निर्वाणस्थानप्राप्तिरेवेति स्थानद्वारमधुना चिन्त्यते
भा०-स्थानम् असङ्ख्येयानि संयमस्थानानि कषायनिमित्तानि भवन्ति । तत्र सर्वजघन्यानि लब्धिस्थानानि पुलाक-कषायकुशीलयोः । ती युगपदसङ्ख्ये
यानिस्थानानि गच्छतः। ततः पुलाको व्युच्छिद्यते। कषायकुशीनिर्ग्रन्थानामध्य- लस्तु असङ्ख्ययानि स्थानान्येकको गच्छति। ततः कषायकुशीबसायस्थानानि
' ल-प्रतिसेवनाकुशील-बकुशा युगपदसङ्ख्येयानि संयमस्थानानि गच्छन्ति । ततो बकुशो व्युच्छिद्यते। ततोऽसङ्ख्ययानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते। ततोऽसङ्ख्येयानि स्थानानि गत्वा कषायकुशीलो व्यच्छिद्यते। अत ऊर्ध्वमकषायस्थानानि निग्रन्थः प्रतिपद्यते । सोऽप्यसइख्येयानि स्थानानि गत्वा व्युच्छिद्यते। अत ऊर्ध्वमेकमेव स्थानं गत्वा निग्रन्थस्नातको निर्वाण प्रामोति । एषां संयमलब्धिरनन्तानन्तगुणा भवतीति ॥ ४९ ॥
१.निम्रन्थकुशीलस्य ' इति ग-पाठः । २ स्थित्युत्पत्तिः' इति च-पाठः। ३ 'कषान्तानां' इति ग-पाठः । 'सर्ध्वमेव ' इति ग-पाठः। ५'एतेषां इति 'ग-पाठः।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org