SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ सूत्र ४९) स्वोपज्ञभाष्य टीकालङ्कृतम् प्रतिसेवनाकुशीलो मूलगुणान, प्राणातिपातनिवृत्त्यादीनविराधयन-अखण्डयनुत्तरगुणेषु दशसु काश्चिद् विराधनां न सा कदाचिदेव प्रतिसेवत इति । "अत्राप्यागमोऽन्यथाऽतिदेशकारी-" पंडिसेवणाकुसीलो जहा पुलागो"। कषायकुशीलस्य निर्ग्रन्थस्नातकयोश्च नास्त्येव प्रतिसेवनेति ॥ . भा०–तीर्थम् । सर्वे सर्वेषां तीर्थकराणांतीर्थेषु भवन्ति । मतान्तरम् एके त्वाचार्या मन्यन्ते-पुलाक-बकुश-प्रतिसेवनाकुशीलास्तीर्थे नित्यं भवन्ति, शेषास्तीर्थे वाऽतीर्थे वा ॥ ____टी०-तरन्त्यनेनेति तीर्थ-प्रवचन प्रथमगणधरो वा । तत्र किं कस्यचिदेव तीर्थकृतस्तीर्थेषु पुलाकादयो भवन्त्युत सर्वेषामेव तीर्थकराणामित्याह-सर्वे सर्वेषामित्यादि । सर्वे पुलाकादयः सर्वेषां तीर्थकृतां तीर्थेषु भवन्ति । एके त्वाचार्या इत्यादि । पुलाको बकुशः प्रतिसेवनाकुशीलश्च नित्यं तीर्थ एव । शेषाः कषायकुशील-निर्ग्रन्थ-स्नातकाः तीर्थे भवन्ति । एते कदाचिदतीर्थेऽपि मरुदेवीप्रभृतयः श्रूयन्त इति । तमद इदमेव चादेशान्तरमाश्रित्यांगममुपलभामहे-"पुंलागे णं भंते ! किं तित्थे होआ अतित्थे वा होजा ? गोयमा ! तित्थे होजा नो अतित्थे । एवं बउसपडिसेवणाकुसीला वि कसायकुसीला तित्थे वा होजा अतित्थे वा होला ? एवं नियंठसिणाया वि" ॥ भा०–लिङ्गम् । लिङ्ग द्विविधं-द्रव्यलिङ्ग भावलिङ्गं च । भावलिङ्ग प्रतीत्य सर्वे पश्च निग्रन्था भावलिङ्गे भवन्ति, द्रव्यलिङ्गं प्रतीत्य भाज्याः ॥ टी-लिङ्ग विविधमित्यादि । लिङ्ग-चिह्न मुमुक्षोः। तच्च द्विधा-द्रव्य-भावभेदात् । तत्र द्रव्यलिङ्गं रजोहरण-मुखवस्त्रिकादि । भावलिङ्ग ज्ञान-दर्शन-चारित्राणि । भावलिङ्गं प्रतीत्य-निसृत्य सर्वे पश्चापि पुलाकादयो भावलिङ्गे भवन्त्येव । द्रव्यलिङ्ग प्रतीत्य भाज्याः कदाचिद् रजोहरणादि भवति कदाचिन्नेति, मरुदेवी-भरतप्रभृतीनामिति ॥ भा०-लेश्याः। पुलाकस्योत्तरास्तिस्रो लेश्या भवन्ति । बकुश-प्रतिसेवना. कुशीलयोः सर्वाः षडपि। कषायकुशीलस्य परिहारविशुद्धस्तित्र उत्तराः सूक्ष्म १ छाया-- प्रतिसेवनाकुशीलो यथा पुलाकः । २'कुसीले जहा पुलाए ' इति भगवत्या (श० २५, उ० ६, सू० ७५५)। ३ सन्तुल्यतां यदुक्तं भगवत्यां (सू. ७५४)। ४ छाया पुलाको भदम्त ! कि तीर्थे भवेत् अतीर्थे वा भवेत् ? गौतम ! तीर्थे भवेत् , मो अतीर्थे । एवं बकुशप्रतिसेवना कुशीला अपि । कषायकुशीलः तीर्थे वा भवेत् अतीर्थे वा भवेत् । एवं निर्ग्रन्थस्नातकौ मपि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy