SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ २८८ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ उत्तरगुणपडिसेवए य । मूलगुणे पडिसेवमाणे पंचण्हं महव्वयाणं अण्णयरं पडिसेवे उत्तरगुणे पडिसेवमाणे दसविहस्स पञ्चक्खाणस्स अण्णयरं पडिसेवेज्जा ॥" भा०-बकुशो विविधः-उपकरणबकुशः शरीरबकुशश्च । तत्रोपकर _ णाभिष्वक्तचित्तो विविधविचित्रमहाधनापकरणपरिग्रहयुक्तो बकुशस्य द्वैविध्यम् ॥ 'बहुविशेषोपकरणाकाङ्क्षायुक्तो नित्यं तत्प्रतिसंस्कारसेवी भिक्षुरुपकरणबकुशो भवति ॥ टी-बकुशो द्विधा-उपकरण-शरीरभेदात् । तत्र-तयोरुपकरणबकुश उपकरणेवस्त्र-पात्रादौ अभिष्वक्तचित्तः-प्रतिबद्धस्नेहः समुपजाततोषः। वस्त्रं विविधं देशभेदेन पौण्ड्रवर्धनककासाकुलकादि । पात्रमपि पुरिकांगन्धधारकप्रतिग्रहकादिविचित्रं रक्तपीतबिन्दसितपट्टकादिप्रचितं महाधर्न-महामूल्यम् । एवमादिना उपकरणपरिग्रहेण युक्तो ममेदं स्वं अहमस्य स्वामीत्युपजातमूर्छः पर्याप्तोपकरणोऽपि भूयो बहुविशेषोपकरणकाङ्क्षायुक्तः बहुविशेषो यत्र मृदु-दृढ-श्लक्ष्ण-घन-निचित-रुचिरवर्णादि तादृश्युपकरणे लब्धव्ये जातकाङ्क्षो-जाताभिलाषः । सर्वदा च तस्योपकरणस्य प्रतिसंस्कारं प्रक्षालनदशाबन्धघटिकासंवेष्टनादिकं सेवमानस्तच्छील उपकरणबकुशः ॥ ___भा०-शरीराभिष्वक्तचित्तो विभूषार्थ तत्प्रतिसंस्कारसेवी शरीरबकुशः। प्रतिसेवनाकुशीलो मूलगुणानविराधयन् उत्तरगुणेषु काश्चिद् विराधनां प्रतिसेवते । कषायकुशील-निर्ग्रन्थ-स्नातकानां प्रतिसेवना नास्ति ॥ टी-शरीरबकुशस्तु शरीराभिष्वक्तेत्यादि । तस्य-शरीरस्याभ्यञ्जनोद्वर्तनस्नानादिक प्रतिसंस्कार सेवमानस्तच्छील एव भवति । एष चोत्तरगुणभ्रंशकारी, न तु मूलगुणान् विराधयति । यथोक्तमागमे-"बंउसे पुच्छा । गोयमा ! नो मूलगुणपडिंसेवी होज्जा उत्तरगुणपडिसेवी होज्जा । उत्तरगुणे पडिसेवमाणे दसविहस्स पच्चक्खाणस्स अण्णयरं पडिसेवेज्जा"। सेवकः किं मूलगुणप्रतिसेवक उत्तरगुणप्रतिसेवकः ? मूलगुणप्रतिसेवकः उत्तरगुणप्रतिसेवकश्च । मूलगुणान् प्रतिसेवमानः पञ्चानां महाव्रतानां अन्यतरं प्रतिसेवेत उत्तरगुणान् प्रतिसेवमानो दशविधस्य प्रत्याख्यानस्य अन्यतरं प्रतिसेवेत । १'काङ्गधारक' इति ग-पाठः । - २ छाया बकुशे पृच्छा । गौतम ! नो मूलगुणप्रतिसेवी भवेत् , उत्तरगुणप्रतिसेवी भवेत् । उत्तरगुणान् प्रतिसेवमानों दशविधस्य प्रत्याख्यानस्यान्यतरं प्रतिसेवेत । - ३ 'सेवए' इति भगवस्यां (श० २५, उ० ६, सू० ७५५)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy