________________
२८७
सुत्रं ४९]
स्वोपज्ञभाष्य-टीकालङ्कृतम् श्रुतं कियत् कस्येत्याह
भा०-श्रुतम् । पुलाक-बकुश-प्रतिसेवनाकुशीला उत्कृष्टेनाभिन्नाक्षरदशपूर्वधराः। कषायकुशील-निर्ग्रन्थौ चतुर्दशपूर्वधरौ । जघन्येन पुलाकस्य श्रुतमाचारवस्तु । बकुश-कुशील-निग्रन्थानां श्रुतमष्टौ प्रवचनमातरः । श्रुतापगतः केवली स्नातक इति ॥
टी-पुलाक-बकुश-प्रतिसेवनाकुशीला उत्कर्षेण अभिन्नाक्षराणि दश पूर्वाणि धारयन्ति । अभिन्नम्-अन्यूनमेकेनाप्यक्षरेणान्यूनानि दश पूर्वाणीत्यर्थः। कषायकुशीलो निर्ग्रन्थश्च चतुर्दशपूर्वधर उत्कर्षतः । जघन्येन पुलाकस्य नवमपूर्वान्तःपाति तृतीयमाचारवस्तु यावच्छूतम् । बकुश-कुशील-निर्ग्रन्थानामष्टौ प्रवचनमातरः ।
. श्रुतरहितः केवलीति । आंगमस्त्वन्यथा व्यवस्थितः-"पुलाए णं भंते आगमे मतभेदः केवतियं सुयं अहिजि(ज्जे? )ज्जा ? गोयमा ? जण्हणेणं णवमस्स पुव्वस्स तत्तियं आयारवत्थु, उक्कोसेणं नव पुव्वाई संपुण्णाई, बउसपडिसेवणाकुसीला जहण्णेणं अट्ठपवयणमायाओ, उक्कोसेणं चोद्दस पुवाई अहिजिज्जा कसायकुशीलनिग्गंथा जहण्णेणं अहपवयणमायाओ उक्कोसेणं चोद्दस पुव्वाइं अहिजिजा ॥"
सम्प्रति प्रतिसेवनामाश्रित्योच्यते
भा०-प्रतिसेवना पश्चानां मूलगुणानां रात्रिभोजनविरतिषष्ठानां पराभियोगाद् बलात्कारेणान्यतमं प्रतिसेवमानः पुलाको भवति । मैथुनमित्येके ॥
टी०-प्रतिसेवना पश्चानामित्यादि । मूलगुणाः प्राणातिपातनिवृत्त्यादयः पञ्च क्षपाभोजनविरतिश्च तानपरेणाभियुज्यमानः सेवते । पराभियोगादित्यस्यैव व्याख्याबलात्कारेण वा परेणाभियुक्तः प्रेरितो यदा भवति तदा प्रवर्तते, न स्वरसत एव । परैस्तु राजादिभिर्बलात्कारेण प्रवत्यते । तदेवमन्यतमं मूलगुणं प्रतिसेवमानः पुलाको भवति । मैथुनमित्येके । अपरे आचक्षते-मैथुनमेवेत्थं पराभियोगात् बलात्कारेण सेवां कार्यते स पुलाकः, न प्राणातिपातं सेवमान इति । अत्राप्यन्यथैवागमः-"पुलाए णं भंते ! किं पडिसेवए
_ होजा अप्पडिसेवए होज्जा ? गोयमा! पडिसेवए, नो अपडिसेवए । जइ मतान्तरम् पडिसेवए किं मूलगुणपडिसेवए उत्तरगुणपडिसेवए ? मूलगुणपडिसेवए
१ 'आगमरहितः' इति ग-पाठः। २ कोऽयमागम इति न निर्णीयते, सदृक् पाठस्तु समस्ति भगवत्यां (श० २५, उ० ६, सू० ७५७)। ३ छाया-पुलाको भदन्त ! कियत् श्रुतमधीयेत ? गौतम ! जघन्येन नवमस्य पूर्वस्य तृतीयमाचारवस्तु, उत्कृष्टेन नव पूर्वाणि सम्पूर्णानि, बकुशप्रतिसेवनाकुशीलौ जघन्येन अष्टप्रवचनमातरः, उत्कृष्टेन चतुर्दश पूर्वाणि अधीयेयाताम् । कषायकुशीलनिर्ग्रन्थौ जघन्येन अष्टप्रवचनमातरः, उत्कृष्टेन चतुर्दश पूर्वाणि अधीयेयाताम् । ४ 'दस पुव्वाई' इति मुद्रितायां भगवत्याम। ५ प्राय ईहक पाठो वर्तते भगवत्यां (श० २५, उ०६.स.७५५)। ६ पुलाको भदन्त ! किं प्रतिसेवको भवेत् अप्रतिसेवको भवेत् । गौतम 1 प्रतिसेवकः नो अप्रतिसेवकः । यदि प्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org