SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ पलाकस्य पञ्च . . .... . .... ..। शादः पाश २८६ तत्त्वार्थाधिगमसूत्रम् . [अध्यायः ९ ____टी०-एते पुलाकादय इत्यादि। एत इत्युक्तलक्षणाः पुलाकादयः पञ्च निर्ग्रन्थाः । एभिः संयमादिभिरष्टाभिरनुगमविकल्पैरनुगमनम्-अनुसरणमनुगमोऽनुयोगद्वाराण्यापेणमुखानि तद्विकल्पैः-तद्भेदैः साध्या भवन्ति । तद्यथेत्यादिना। तान् संयमादिविकल्पानुपन्यस्यति । संयम इति प्रथमोऽनुगमविकल्पः । पुलाकादीनां पश्चानां निर्ग्रन्थानां कः कस्मिन् संयमे सामायिकादौ भवति-वर्तत इत्यज्ञप्रश्नः । उच्यते-यो यस्मिन् संयमादौ भवति स तथा भण्यते । पुलाक-बकुश-प्रतिसेवनाकुशीलास्त्रयो निर्ग्रन्थाः संयमद्वये वर्तन्ते सामयिकसंयमे छेदोपस्थाप्यसंयमे च । तत्र पुलाकः पञ्च व भेदः ज्ञान-दर्शन-चरण-लिङ्ग-सूक्ष्माख्यः । स्खलितादिभिर्ज्ञानपुलाकः । विधता ५ शा कुदृष्टिसंस्तवादिभिर्दर्शनपुलाकः । मूलोत्तरगुणप्रतिसेवनातवरणपुलाकः । यथोक्तलिङ्गाधिकरणाल्लिङ्गपुलाकः । किञ्चित्प्रमादात् सूक्ष्मपुलाकः । एष पञ्चप्रकारोऽपि संयमद्वये वतेते । बकुशोऽपि ओभोगा-ऽनाभोग-संवृता-संवृत-सूक्ष्मबविध्यम् व कुशभेदात् पञ्चप्रकारः । तत्र सश्चिन्त्यकारी आभोगबकुशः । सहसाकारी अनाभोगबकुशः । प्रच्छन्नकारी संवृतबकुशः । प्रकटकारी असंवृतबकुशः । किश्चित्प्रमादी सूक्ष्मबकुशः । प्रतिसेवनाकुशीलोऽपि ज्ञान-दर्शन-चरण-लिङ्ग सूक्ष्मभेदेन पञ्चप्रकारः । ज्ञानाद्यतिचारप्रतिसेवनादिति । प्रतिगता सेवना प्रतिसेवना। क्रियायोगात्यये सत्युपसर्गसञ्ज्ञाभावात् षत्वाभावोऽतिसिक्तवत् । अन्ये तु प्रतिषेवणामेवेच्छन्ति । कषाय कुशीलाः परिहारविशुद्धिसंयमे सूक्ष्मसम्परायसंयमे च द्वयोरेव न्तरम् दर्शिता भाष्यकारेण । अपरे तु ब्रुवते-“कषायकुशीलाः सामायिकादिषु चतुर्षु संयमेषु यथाख्यातसंयमरहितेषु वर्तन्ते"। यथाऽऽह "आधचारित्रयोराद्या-त्रय एकश्चतुर्वपि । निम्रन्थ-स्नातकौ नित्यं, यथाख्यातचरित्रिणौ ॥१॥"-अनु० प्रतिसेवनाकुशीलवत् कषायकुशीलोऽपि पञ्चभेद एव । निर्ग्रन्थः स्नातकश्च एकस्मिन्नेव यथाख्यातसंयमे वर्तेते । उपशान्तक्षीणमोहा निर्ग्रन्थाः । स्नातकाः सयोगायोगकेवलिनः। निर्ग्रन्थोऽपि पञ्चभेद एव, प्रथमसमया-प्रथमसमय-चरमसमया-ऽचरमसमय-सूक्ष्मभेदतः । स्नातकोऽपि पञ्चप्रकारः-अच्छविः, अशवलः, अकाशः, अपरिश्रावी, संशुद्धज्ञानदर्शनधरश्चेति । छविः-शरीरं तदभावात् काययोगनिरोधे सति अच्छविर्भवति । निरतिचारत्वादशबलः । क्षपितकर्मत्वादकोशः। निष्क्रियत्वात् सकलयोगनिरोधे त्वपरिश्रावी । ज्ञानान्तरेणासम्पृक्तत्वात् संशुद्धज्ञानदर्शनधर इति ॥ मतान्तरम १.स्खलनादिभिः' इति उ.-पाठः। २'आभिकानाभोग' इति ग-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy