SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ २८५ सूत्र ४९] स्वोपज्ञभाष्य-टीकालङ्कृतम् ." ध्यानं ह्यभिसन्धान, ध्यानेन च कर्मणो भवति मोक्षः। ध्यानेन ततः क्षपयति, कर्माणि स पञ्चमात्रेण ॥१॥"-आर्या पञ्च मात्रा यत्र ध्यान इति । एवंविधावस्थाः शैलेशीप्रतिपन्ना उच्यन्ते तदा चेमाः प्रकृतीः क्षपयन्ति " स्पर्शरसवर्णगन्धा-ऽनादेयनिर्माणदेहनामानि । संहननाङ्गोपाङ्गा-नि तथा संस्थाननामानि ॥१॥-आर्या नृसुरगतिप्रायोग्ये, सुरगत्युपघातमगुरुलघुता च । उच्छासपराधाता, पयोप्तशुभाशुभानि तथा ॥२॥-, दुर्भगदुःस्वरमुच्चै-नीचैर्गोत्रस्थिरास्थिराणि तथा ।। अन्यतरवेद्यखगति, प्रत्येकशरीरमयशश्च ॥३॥-, प्रकृतय एता द्विचरम-समये तस्य क्षयं समुपयान्ति । क्षपयत्ययोगिवेद्या-श्च ततः प्रकृतीः स चरमान्ते ॥४॥-, तैजसशरीरबन्धो-ऽपि तस्य नामक्षयात् क्षयं याति । औदारिकबन्धो-ऽपि, क्षीयत आयुःक्षयात् तस्य ॥ ५॥-, एवमशेषकर्मक्षयान्मुक्तो भवति ॥ ४८॥ एवमेते पुलाकादयोऽभिहिताः पञ्च निर्ग्रन्थाः स्वरूपतः । अथैषां कः कस्य संयमविकल्पः श्रुतादिविकल्पो वेत्याहअनुगमविकल्पा- सूत्रम्-संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपाष्टकम् तस्थानविकल्पतः साध्याः॥ ९-४९॥ टी-संयमादयोऽष्टौ स्थानान्ताः कृतद्वन्द्वा विकल्पशब्देन सह समस्यन्ते । संयमादीनां विकल्पा:-चरणभेदाः तैः संयमादिविकल्पैः । संयमादिविकल्पतः संयमादिकारणैर्हेतुभिः साध्याः-साधनीयाः प्रतिविशिष्टाः संयमादिरूपेण । केचित् तु विकल्पव्याख्याऽन्तरम् शब्दं स्थानसन्निधावेव नियुञ्जते स्थानस्य विकल्पाः संयमस्थानभेदा इति ॥ ___ भा०—एते पुलाकादयः पञ्च निर्ग्रन्थविशेषाः एभिः संयमादिभिरनुयोगविकल्पैः साध्या भवन्ति । तद्यथा-संयमः । कः कस्मिन् संयमे भवतीति । उच्यते-पुलाक-बकुश-प्रतिसेवनाकुशीला द्वयोः संयमयोःसामयिके छेदोपस्थाप्ये च, कषायकुशीला द्वयोः परिहारविशुद्धौ सूक्ष्मसंपराये च, निर्ग्रन्थ-सातको एकस्मिन् यथाख्यातसंयमे ॥ १' गमविकल्पैः' इति घ-टी-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy