________________
२८४
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ९ तत्र-तयोः प्रतिसेवनाकुशीला नैर्ग्रन्थं प्रति प्रस्थिता अनियमितेन्द्रिया-इन्द्रियनियमशून्या रूपादिविषयेक्षणकृतादराः कथञ्चित् केनचित् प्रकारेण व्याजमुपदिश्य किञ्चिदेवोत्तरगुणेषु पिण्डविशुद्धि-समिति-भावना-तपः-प्रतिमा-ऽभिग्रहादिषु विराधयन्त:-खण्डयन्तोऽतिचरन्तः सर्वज्ञाज्ञोल्लधनमाचरन्ति ते प्रतिसेवनाकुशीलाः ॥
कषायकुशीलानाचष्टे
भा०-येषां तु संयतानां सतां कथञ्चित् सज्वलनकषाया उदीर्यन्ते ते कषायकुशीलाः ॥
टी०-येषां त्वित्यादि । येषां संयतानां सतां-मूलोत्तरगुणसम्पदुपेतानामपि भवतां कथञ्चित्-केन प्रकारेण स्वल्पेनापि हेतुना कुड्यकाष्ठलोष्टविषमकाश्यपीप्रस्खलनादिना सञ्ज्वलनकषायाः क्रोधादयः उदीयन्ते-उदयमुपनीयन्ते, किञ्चिदेव कारणमासाद्योदयं गच्छन्ति ते कषायकुशीलाः ॥ सम्प्रति निर्ग्रन्थनिरूपणार्थमाह
. भा०-ये वीतरागच्छद्मस्था र्यापथप्राप्तास्ते निर्ग्रन्थाः । ईर्यायाः पर्यायाः ईर्या योगः, पन्थाः संयमः, योगसंयमप्राप्ता इत्यर्थः ।
टी०-ये वीतरागच्छद्मस्था इत्यादि । उपशमितक्षपितमोहजाला विगताशेषरागद्वेषमोहत्वात् एकादश-द्वादशगुणस्थानवर्तिनस्ते वीतरागच्छद्मस्थाः। छद्म-आवरणं तत्र स्थिताः। सावरणज्ञानाः छमस्थाः । ईयोपथं प्राप्ताः अकषायत्वादुपशान्तकषायाः क्षीणकषायाश्च एकसमयावस्थायीयोपथं कर्म बन्नन्ति । ईयायाः पन्था ईयोपथः । इयों व्यापारो योग इति पर्यायाः। तस्य व्यापारस्य विषयः-पन्थाः स च संयमः सप्तदशप्रकारः। एनमेवार्थ स्पष्टतरमाचष्टे-योगसंयमप्राप्ता इत्यर्थः। योगेन-विशिष्टक्रियया विशिष्टमेव संयम यथाख्याताख्यं प्राप्ता इति यावत् । ते निर्ग्रन्था विकीर्णमोहग्रन्थय इत्यर्थः ॥
भा०—सयोगाः शैलेशीप्रतिपन्नाश्च केवलिनः स्नातका इति ॥ ४८ ॥
टी-सयोगा इत्यादिना स्नातकनिरूपणं करोति । योगः-कायादिचेष्टा । सह योगेन सयोगाः त्रयोदशगुणस्थानवर्तिनो निरस्तघातिकर्मचतुष्टयाः केवलिनः स्नातकाः, प्रक्षालितसकलघातिकर्ममलपटला इत्यर्थः । शैलेशीप्रतिपन्नाश्चेत्यनेनायोगकेवलिन उपाचाः। ते च केवलिनो विहृत्य कञ्चित् कालं ततोऽकृतसमुद्धाताः समुद्धाताद् विनिवृत्ताः क्रमेण योगान् निरुन्धन्ति वा । स चोक्त एव क्रमः प्राक् । निरुद्धयोगाश्च व्युपरतक्रियानिवर्तिनो ध्यानेन शेषकर्माशान् क्षपयन्ति । यथोक्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org