________________
सूत्रं ४८ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
२८३
बकुशशब्दार्थः
कुश इति शबलपर्यायः । शबलो वर्णव्यतिकरः क्वचिद् वलक्षः कचित् कृष्णः कचिद् रक्तः एक एव पटः । एवमयमपि निर्ग्रन्थः । सातिचारत्वाच्चरणपटं शबलयति विशुद्धयशुद्धिव्यतिकीर्णस्वभावं करोति । स च द्विधा - शरीरोपकरणभेदेन । तदाह वृत्ति (भाष्य?) कारः - नैर्ग्रन्थ्यं प्रति प्रस्थिता इत्यादि । निर्ग्रन्थस्य भावो नैर्ग्रन्थ्यंअष्टाविंशतिविधमोहनीयक्षयस्तत् प्रति प्रस्थिताः - प्रवृत्तास्तदभिमुखास्तत्क्षबकुशस्य द्वैविध्यम् याकाङ्क्षिणः । शरीरम् - अङ्गोपाङ्गसङ्घातः उपकारित्वादुपकरणं वस्त्रपात्रादि तद्विषयां विभूषाम् - अलङ्कृतिमनुवर्तन्ते, तच्छीलाचेति । शरीरे तावदनागुप्तव्यतिरेकेण कर-चरण-चदनप्रक्षालनमक्षि-कर्ण - नासिकावयवेभ्यो दूषिकामलाद्यपनयनं दन्तपवनभ(स्र)क्षणं केशसंस्कारं च विभूपार्थमाचरन् शारीरवकुशो भवति । उपकरणचकुशस्तु अकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिश्वोक्षकवास:प्रिय पात्रदण्डकाद्यपि तैलपात्रया (च्या) उज्ज्वलीकृत्य विभूषार्थमनुवर्तमानो बिभर्ति ऋद्धीः प्रभूतवस्त्रपात्रादिकास्ता इच्छन्ति कामयन्ते तत्कामाः यशः ख्यातिगुणवन्तो उपकरणबकुशस्य विशिष्टाः साधवः इत्येवंविधः प्रवादस्तच्च यशः कामयन्त इति ऋद्धिस्वरूपम् शस्कामाः । सातगौरवमाश्रिता इति । सुखशीलता - सातगौरवं तदाश्रिताः । आदरवचनो गौरवशब्दः । सुखे य आदरः तदवाप्तिव्यापारप्रवणता तदाश्रिताः नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियास्वभ्युद्यताः । अविविक्ता इति नासंयमात् पृथग्भूता घृष्टजङ्घाः तैलादिकृतशरीरमृजाः कर्तरिकाकल्पितकेशा एवंविधः परिवारो येषां ते अविविक्तपरिवाराः सर्वदेशच्छेदार्हातीचारजनितशबलेन वैचित्र्येण युक्ताः एवंविधा निर्ग्रन्थाः बकुशसंज्ञाः ॥
शारीरवकुशस्य स्वरूपम्
कुशीलस्वरूपनिर्धारणायाह
भा०-- कुशीला द्विविधाः - प्रतिसेवना कुशीलाः कषायकुशीलाश्च । तत्र कुशीलस्य द्वैविध्यं प्रतिसेवनाकुशीला नैर्ग्रन्थ्यं प्रति प्रस्थिता अनियमितेन्द्रियाः प्रतिसेवनाकुशील- कथञ्चित् किञ्चिदुत्तरगुणेषु विराधयन्तश्चरन्ति ते' प्रतिसेवनास्य स्वरूपं व कुशीलाः ॥
टी० - कुशीला द्विविधा इत्यादि । अष्टादशसहस्रभेदं शीलं तदुत्तरगुणभङ्गेन केन - चित् कषायोदयेन वा कुत्सितं येषां ते कुशीला द्विप्रकाराः । तत्प्रकाराख्यानायाह - प्रतिसेवनाकुशीलाः कषायकुशीलाश्चेति । आसेवनं - भजनं प्रतिसेवना तया कुत्सितं शीलमेषामिति प्रतिसेवनाकुशीलाः । कषायाः संज्वलनाख्यास्तदुदयात् कुत्सितं शीलमेषामिति कषायकुशीलाः ।
१' ते ' इत्यूनो ग - पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org