________________
२८२ तत्त्वार्थाधिगमसूत्रम् .
[ अध्यायः ९ कलापः श्रावकोऽसङ्ख्येयगुणनिर्जरो भवति यांवन्ति कर्माणि निर्जरयति सम्यग्दृष्टिः सम्यग्दर्शनप्रभावात् तत्कापरेणासङ्ख्येयराशिना गुणितं तद् यावद् भवति तावद् देशविरतः क्षपयति । एवं पूर्वस्मात् पूर्वस्मादुत्तरोत्तरोऽसङ्ख्येयगुणनिर्जरो भवतीति दर्शयति श्रावकाद् विरतो विरतादनन्तानुबन्धिवियोजक इत्येवं शेषा यावज्जिनः सर्वेभ्य एवासङ्ख्येयगुणनिर्जर इति । अस्य वैचित्र्यभाजः संवरचारित्रस्य के स्वामिन इति तनिर्दिदिक्षयाऽऽह
सूत्रम्-पुलाक-बकुश-कुशील-निर्ग्रन्थ-स्नातका निग्रन्थानां पञ्चविधत्वम् निर्ग्रन्थाः ॥ ९-४८॥
भा०-पुलाको बकुशः कुशीलो निम्रन्थः स्नातक इत्येते पञ्च निर्ग्रन्थविशेषा भवन्ति ॥
टी०–पुलाकादयः पश्चान्वर्थसञ्ज्ञका निर्ग्रन्थाः स्वामिनः । तद्विवरणार्थमाह-पुलाकः बकुशः कुशीलः निर्ग्रन्थः स्नातक इति । एते पञ्च निग्रन्थविशेषा-भेदा भवन्ति निर्ग्रन्थानामिति । ग्रन्थः कर्माष्टकप्रकारं मिथ्यात्वा-विरति-(कषाय)दुष्प्रणिहितयोगाश्च ।
__. तज्जये प्रवृत्तानि निर्ग्रन्थानि । निर्गच्छद्रन्था निर्ग्रन्थाः धर्मोपकरणाहते निग्रन्थशब्दाथः परित्यक्तबाह्याभ्यन्तरोपधयो निर्ग्रन्थाः । पुलाकादिस्वरूपनिरूपणायाह
भा०-तत्र सततमप्रतिपातिनो जिनोक्तादागमानिन्थपुलाकाः। 'नैपुलाक बकुशयोः न्थ्यं प्रति प्रस्थिताः शरीरोपकरणविभूषाऽनुवर्तिनः ऋद्धियश- स्वरूपम् स्कामाः सातगौरवाश्रिताः अविविक्तपरिवाराः छेदशबलयुक्ता निर्ग्रन्था बकुशाः॥ टी०-तत्र सततमित्यादि । तत्र-तेषु पञ्चसु निर्ग्रन्थेषु पुलाकास्तावदेवंविधाः ।
पुलाको निःसार इति प्ररूढं लोके । पलञ्जिस्तन्दुलकणशून्या पुलाकः । पुलकिशब्दाथा एवं निर्ग्रन्थोऽपि लब्धिमुत्पन्नां तपःश्रुताभ्यां हेतुभ्यामुपजीवन् सकलसंयमगलनात् पलञ्जिरूपं निःसारमात्मानं करोति । ज्ञानदर्शनचरणानि च सारः तदपगमानिःसारः। जिनप्रणीतादागमाद्धेतुतः, सदैवाप्रतिपातिन आगमाश्च सम्यग्दर्शनमूलज्ञानचरणे निर्वाणहेतू इत्यस्मादपरिभ्रष्टाः श्रद्दधाना ज्ञानानुसारेण क्रियाऽनुष्ठायिनो लब्धिमुपजीवन्तो निग्रेन्थाः पुलाका भवन्ति । उपजीवन्तश्च निःसारतामात्मनः कुर्वन्तीति ग्राह्यम्। सततमप्रमादिन इत्यपरे
पठन्ति । जिनोक्ताद् वाऽऽगमाद्धेतुभूतान्मुक्तिसाधनेषु न प्रमाद्यन्ति व्याख्याभेदः जातुचिदिति ॥
१ ' यावत् कर्म' इति च-पाठः। २ 'दिदिक्षुराह' इति च-पाठः। ३ 'पञ्चविधा' इति ग-पाठः। ४ शब्दसाम्यार्थं विलोक्यतां तत्त्वार्थराजवार्तिकं (पृ. ३५८)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.