SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ सूत्र ४७] स्वोपज्ञभाष्य टीकालङ्कृतम् प्रायश्चित्तादि तदनुष्ठानात् । अनुभावतश्च । अनुभावो विपाकस्तस्माच्च विपाकात् कर्मणः परिशाटो निर्जरा भवतीति । एवमनूद्य निर्जरां सन्देहस्थानमुपन्यस्यति । यस्मादेवं तस्मात् किं सम्यग्दृष्टयः सर्वे एव समनिर्जरास्तुल्यमेव कर्म निर्जरयन्ति आहोस्विदस्ति कश्चित् प्रतिविशेष इति ? । विशेषो विषमनिर्जरणं, न तुल्यनिर्जरत्वमिति । आचार्योऽपि हृदि व्यवस्थाप्य विषमनिर्जरणामाह-अत्रोच्यत इति । यत् तत्त्वं तदाख्यायत इत्यर्थः॥ सूत्रम्-सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोप शमकोपशान्तमोहक्षपकक्षीणमोहर्जिनाः क्रमशोऽसङ्ख्येविषमाणि निर्जरणानि यगुणनिर्जराः॥९-४७॥ भा०-सम्यग्दृष्टिः, श्रावकः, विरतः, अनन्तानुबन्धिवियोजकः, दर्शनमोहक्षपकः, मोहोपशमकः, उपशान्तमोहः, मोहक्षपकः, क्षीणमोहः, जिनः इत्येते दश क्रमशः असङ्ख्येयगुणनिर्जरा भवन्ति । तद्यथा-सम्यग्दृष्टेः श्रावकोऽसङ्ख्येयगुणनिर्जरः, श्रावकाद् विरतः, विरतादनन्तानुबन्धिवियोजका, इत्येवं शेषाः ॥४७॥ __टी-सम्यग्दृष्टिरिति । तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तद्युक्तः सम्यग्दृष्टिः, सम्यग्दर्शनमात्रमागित्यर्थः । आचार्यप्रभृतीन पर्युपासीनः प्रवचनसारं शृणोतीति श्रावकः । शृण्वंश्च सकल चरणकरणाक्षमो गृहस्थयोग्यमनुगुणशिक्षाबतलक्षणं धर्ममनुतिष्ठति । यथाश्रावकस्य व्याख्या स्वव्या शक्ति वा द्वादशप्रकारस्य धर्मस्यैकदेशानुष्ठाय्यपि श्रावक एव । विरतस्तु साधुधर्मानुष्ठायी सर्वस्मात प्राणातिपाताद यावज्जीवं विरतः, एवं मृषावादादिभ्योऽपिः अनन्तः संसारस्तदनुबन्धिनोऽनन्ताः क्रोधादयस्तान् वियोजयति क्षपयत्युपशमयति वा अनन्तवियोजकः । दर्शनमोहक्षपक इति । दर्शनमोहोऽनन्तानुबन्धिनश्चत्वारः सम्यग्-मिथ्यात्व-तदुभयानि च । अस्य सप्तविधस्य दर्शनमोहस्य क्षपकः। तथाऽस्यैवोपशमकः । मोहोऽष्टाविंशतिभेदः षोडश कषायाः सम्यक्त्व-मिथ्यात्व-सम्यग्मिथ्यात्व-हास्यरति-अरति-भय-शोक-जुगुप्सा-स्त्री-पुं-नपुंसकवेदाश्च । अस्योपशमनादुपशान्तमोहः । अस्यैव सकलस्य क्षपणान्मोहक्षपकः । क्षपणोपशमनक्रियाविशिष्टयोग्रहणम् । क्षपितनिरवशेषमोहः क्षीणमोहः। स चतुर्विधघातिकर्मजयनान्जिन:-केवली। एते सम्यग्दृष्टयादयो जिनावसाना दश क्रमेण क्रमश:-परिपाट्या यथोपन्यस्तास्तथैवासङ्ख्येयगुणनिर्जरा भवन्ति, न तु तुल्यनिर्जरा इत्यर्थः । तामेवासङ्ख्येयगुणां निर्जरां स्पष्टयति भाष्यकार:-सम्यग्दृष्टेः श्रावकोऽसङ्ख्येयगुणनिजेर इत्यादिना । केवलसम्यग्दृष्टेः प्रतिपन्नाणुव्रतादि १.जिनानां' इति ग-पाठः। ३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy