________________
२८० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ९ सूत्रम्-वितर्कः श्रुतम् ॥९-४५॥ भा०-यथोक्तं श्रुतज्ञानं वितर्को भवति ॥ ४५ ॥
टी०-वितर्को-मतिज्ञानं विकल्पः । वितळते-येनालोच्यते पदार्थः स वितर्कः तदनुगतं श्रुतं वितर्कः तदभेदाद् विगतं तर्क वा वितर्क, संशयविपर्ययोपेतं श्रुतज्ञानमित्यर्थः । इदमेव सत्यमित्यविचलितस्वभावम् । यथोक्तमिति पूर्वगतमेव, नेतरत् । श्रुतज्ञानमाप्तवचनं वितर्क उच्यते इति ॥ ४५ ॥
सम्प्रति विचारस्वरूपनिरूपणायाह
सूत्रम्-विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः॥९-४६ ॥
भा०-अर्थव्यञ्जनयोगसङ्क्रान्तिर्विचार इति । एतदभ्यन्तरं तपः संवरत्वादभिनवकर्मोपचयप्रतिषेधक निर्जरणफलत्वात् कर्मनिर्जरकम् । अभिनवकर्मोपचयप्रतिषेधकत्वात् पूर्वोपचितकर्मनिर्जरकत्वाच निर्वाणप्रापकमिति ॥४६॥
टी--अर्थव्यञ्जनयोर्योगेषु च सङ्क्रमण सङ्क्रान्तिः । अर्थः-परमाण्वादिः, व्यञ्जनं तस्य वाचकः शब्दः, योगा-मनोवाकायास्तेषु सङ्क्रमणं सक्रान्तिरेकद्रव्ये अर्थस्वरूपा(त्) व्यञ्जनं व्यञ्जनस्वरूपादर्थं वर्णादिकः पर्यायोऽर्थः व्यञ्जनशब्दः। एतदुक्तं भवति-प्राक्शब्दस्ततस्तत्त्वालम्बनमिदमस्य स्वरूपमयमस्य पर्यायस्ततस्तदर्थचिन्तनं साकल्येन, ततः शब्दार्थयोः स्वरूपविशेषचिन्ताप्रतिबन्धःप्रणिधानमर्थसङ्क्रान्तिः, काययोगोपयुक्तध्यानस्य वाग्योगसञ्चारः, वाग्योगोपयुक्तध्यानस्य वा मनोयोगसञ्चारः इत्येवमन्यत्रापि योज्यम् । इत्थंलक्षणो विचार इत्यस्ति वितर्कविचारयोः प्रतिविशेष इति ॥ एतद्भ्यन्तरं तप इत्यादि संवरकारणं संवरप्रस्तावे (अ० ९, मू० ३ ) इदमुक्तं " तपसा निर्जरा च" इति । संवरो निर्जरा च भवति उभयं करोति तपः। तच्च तपो बाह्यमाभ्यन्तरं च संवरकारणं संवररूपत्वाच्च स्थगितास्रवद्वारस्याभिनवकर्मोपचयप्रतिषेधकोरि नापूर्वकर्मपुद्गलप्रवेशः । कर्मनिर्जरा चेति निर्जरणफलत्वात् कर्मनिर्जरकं कर्म निर्जरयति, परिशाटयतीत्यर्थः । ततश्चाभिनवकर्मोपचयप्रतिषेधकारित्वात् पूर्वोपचितकमेनिजेरकत्वाच सकलकर्मपरिक्षयान्निवाणप्रापकमिति ॥४६॥
भा०-अत्राह-उक्तं भवता (अ० ९, सू० २-३) परीषहजयात् तपसोऽनुभावतश्च कर्मनिर्जरा भवतीति । तत् किं सर्वं सम्यग्दृष्टयः समनिर्जरा आहोस्विदस्ति कश्चित् प्रतिविशेष इति । अत्रोच्यते
टी०-अत्राह-उक्तं भवतेत्यादि सम्बन्धग्रन्थः । किमुक्तं तद् दर्शयति-परीषहजयात्, क्षुत्पिपासादयः परीपहास्तज्जयात्-सम्यगतिसहनात् । तपो द्वादशभेदमनशन
१ 'कारिता अपूर्व ' इति च-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org