________________
सूत्रं ४४]
. २७९
स्वोपज्ञभाष्य-टीकालङ्कृतम् अर्थादि च पृथक्त्वेन, यद् वितर्कयतीव हि । ध्यानमुक्तं समासेन, तत् पृथक्त्वविचारवत् ॥३॥ -अनु० अविकम्प्यमनस्त्वेन, योगसङ्क्रान्तिनिःस्पृहम् ।। तदेकत्ववितकोख्यं, श्रुतज्ञानोपयोगवत् ॥ ४॥ सूक्ष्मकायक्रिया-रुद्धसूक्ष्मवाङ्मनसक्रियः । यद् ध्यायति तदप्युक्तं, सूक्ष्ममप्रतिपाति च ॥ ५॥ -, कायिकी च यदेषाऽपि, सूक्ष्मोपरमति क्रिया । अनिवर्ति तदप्युक्तं, ध्यानं व्युपरतक्रियम् ॥ ६॥"॥ ४२ ॥-,
सूत्रम्- एकाश्रये सवितर्के पूर्वे ॥९-४४ ॥
भा०–एकद्रव्याश्रये सवितर्के पूर्वे ध्याने प्रथमद्वितीये । तत्र सविचार प्रथम, अविचारं द्वितीयं, अविचारं सवितर्क द्वितीयं ध्यानं भवति ॥४४॥
टी०- एक आश्रय-आलम्बनं ययोस्ते एकाश्रये एकद्रव्याश्रये इति पूर्वविदोरभ्ये मतिगर्भश्रुतप्रधानन्यापाराच्चैकाश्रयतापरमाणुद्रव्यमेकमालम्ब्यात्मादिद्रव्यं वा श्रुतानुसारेण निरुद्धचेतसः शुक्लध्यानमिति “ वितर्कः श्रुतम्" वक्ष्यति (अ०९, सू०४५) इति । सह वितर्केण सवितर्क, पूर्वगतश्रुतानुसारिणीत्यर्थः। पूर्व च पूर्वं च पूर्वे ध्याने । एतदेव निश्चिनोतिप्रथमद्वितीये इति पृथक्त्ववितर्कमेकत्ववितर्क च । तत्र-तयोर्यत् प्रथमम्-आद्यं पृथक्त्ववितर्क तत् सविचारं सह विचारेण सविचारं, सह सङ्क्रान्त्येति यावत् । वक्ष्यति (अ०९, सू०४६)"विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः" । कथं पुनरनुपात्तं सूत्रे सविचारमिति गम्यते । अविचारं द्वितीयमिति वचनादर्थलभ्यं प्रथम सविचारमिति । . अविचारं द्वितीयम् । अविद्यमानविचारं अविचारं, अर्थव्यञ्जनयोगसङ्क्रान्तिरहितमित्यर्थः। द्वितीयमिति सूत्रक्रमप्रामाण्यांदेकत्ववितर्कमविचारं भवति ध्यानमिति ॥ ४४ ॥
भा०–अत्राह-वितर्कविचारयोः कः प्रतिविशेष इति । अत्रोच्यतेटी०-अत्राहेत्यादि वितर्कविचारयोर्विशेषमजानानः स्वरूपमवगच्छन् पर
पृच्छति-कः प्रतिविशेष इति । प्रतिशब्दस्तत्त्वाख्यायां वर्तते । वस्य यथा-शोभनश्चैत्रः प्रतिमातरं एवं प्रतिविशेषः स्वरूपमितरेतरव्यावृत्तं तत्त्वं अर्थनानात्वम्
वितर्कविचारयोः कीदृगिति तत्त्वमाख्यायताम् । अत्रोच्यत इत्याह
'प्रतिशब्दस्य
१ 'कम्पमन' इति ड-पाठः । २ 'दारम्भे' इति उ-पाठः। ३ 'देकत्वविचारं ' इति -पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org