________________
२७८ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ९ अत्राह-उक्तमित्यादिसम्बन्धः । शुक्ले चाये द्वे पूर्वविदः इत्युक्तं (अ०९, सू०३९, ४०), परे द्वे केवलिन इति चाभिहितं ( अ० ९, मू० ४१)। तत् कानि तानीति अजानानेन प्रश्ने कृते अन्रोच्यते इत्याह
सूत्रम्-पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिशुक्लध्यानस्य चातुर्विध्यम् व्युपरतक्रियानिवर्तीनि ॥९-४२॥
भा०-पृथक्त्ववितर्कम्, एकत्ववितर्क, सूक्ष्मक्रियमप्रतिपाति, व्युपरतक्रियानिवर्तीति चतुर्विधं शुक्लध्यानम् ॥ ४२ ॥
टी०-पृथक्त्ववितर्कमित्यादिना भाष्येण नामग्राहं पठति चतुरोऽपि भेदान् ॥४२॥
एते चोक्तलक्षणा भेदाः शुक्लध्यानमित्थं चतुर्विधमिति सस्वामिकमुक्तम् । तस्याधुना पूर्वोक्तस्वामिन एव विशेष्य कथ्यन्ते
सूत्रम् तत् त्र्येककाययोगायोगानाम् ॥ ९-४३ ॥
भा०—तदेव चतुर्विध शुक्लध्यानं त्रियोगस्यान्यतमयोगस्य काययोगस्यायोगस्य च यथासङ्ख्यं भवति । तत्र त्रियोगानां पृथक्त्ववितर्क, एकान्यतमकयोगानामेकत्ववितर्क, काययोगानां सूक्ष्मक्रियमप्रतिपाति, अयोगानां व्युपरतक्रियानिवर्तीति ॥ ४२ ॥
टी० तदेतच्चतुर्विधं शुक्लध्यानं प्रथमद्वितीयो(?)त्तमसंहननवतो भवति । तत्राचं पृथक्त्ववितर्क त्रियोगस्य भवति, मनो-वाक्-काययोगव्यापारवत इत्यर्थः । एकान्यतमयोगानामिति । अन्यतमैकयोगानामेकत्ववितर्क एकोऽन्यतमः कायादीनां योगो यस्य ध्यायिनो व्याप्रियते, कदाचिन्मनोयोगः कदाचिद् वाग्योगः कदाचित् काययोग इति । काययोगानामिति कायैकयोगभाजामेव सूक्ष्मक्रियमप्रतिपाति शुक्लध्यानमिति । निरुद्धयोगद्वयावस्थानां कायव्यापारवतां सूक्ष्मक्रियं भवति, न च प्रतिपतति । अयोगानामिति शैलेश्यवस्थानां हस्वाक्षरपञ्चकोच्चारणसमकालानां मनो-वाक्-काययोगत्रयरहितानां व्युपरतक्रियमनिवर्ति ध्यानं भवति । उक्तं च
" यदर्थव्यञ्जने काय-वैचसी च पृथक्त्वतः। मनः सङ्क्रमयत्यात्मा, स विचारोऽभिधीयते ॥१॥-अनु० सङ्क्रान्तिरथोंदर्थे यद, व्यञ्जनाद् व्यञ्जनं तथा।। योगाच्च योगमित्येष, विचार इति वा मतः ॥२॥ -,
१'बाह्ये ' इति उ-पाठः । २-३ निवृत्ती' इति घ-पाठः। ४ वचसा' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org