________________
२७७
सूत्र:४१]
स्वोपज्ञभाष्य-टीकालङ्कृतम् आदरतत्वात् पूर्व, वाङ्मनसे बादरे स निरुणद्धि क्रमेणैव । आलम्बनाय करणं, हि तदिष्टं तत्र वीर्यवतः ॥ १२॥ -आर्या सत्यप्यनन्तवीर्य-त्वे बादरतनुमपि निरुणद्धि ततः। सूक्ष्मेण काययोगेना(न?) न निरुध्यते हि मूक्ष्मो योगः॥१३॥-,, सति बादरे योगे, न हि धावन् वेपथु वारयति । नाशयति काययोग, स्थूलं सोपूर्वफडुकीकृत्य । शेषस्य काययोग-स्य तथा कृतीश्च स करोति ॥ १४ (१)॥ -, सूक्ष्मेण काययोगेन ततो निरुणद्धि सूक्ष्मवाङ्मनसे । भवति ततोऽसौ सूक्ष्म-क्रियस्तदाकृतिगतयोगः ॥ १५॥ -, तमपि स योगं मूक्ष्म, निरुरुत्सन् सर्वपर्ययानुगतम् । ध्यानं सूक्ष्मक्रिय-मप्रतिपात्युपयाति वितमस्कम् ॥ १६ ॥ -, ध्याने दृढार्पिते पर-मात्मनि ननु निष्क्रियो भवति कायः। . प्राणापातनिमेपो-न्मेषवियुक्तो मृतस्येव ॥ १७ ॥ ध्यानार्पितोपयोग-स्यापि न वाङ्मनसक्रिये यस्मात् । अन्तर्वर्तित्वादप-रमतस्तेन तयोर्ध्यानेन निरोधनं नेष्टम ॥१८॥ सततं तेन ध्याने न 'निरुद्ध सूक्ष्मकाययोगेऽपि । निष्क्रियदेशो भवति, स्थितोऽपि देहे विगतलेश्यः ॥ १९॥–आर्या तुर्यध्याने योगाभावात् समयस्थितिना(नोड)पि न कर्मणो भवति बन्धः । ध्यानार्पणसंहारात, किञ्चिच ससंहतावयवाः ॥२०॥ -, लेश्याक्रियानिरोधो, योगनिरोधश्च गुणनिरोधेन ।।
इत्युक्तो विज्ञेयो, बन्धनिरोधश्च हि तथैव ॥ २१ ॥" त्रसबादरपर्याप्तादेयशुभगकीर्तिमनुजनाम्नि पञ्चेन्द्रियतामन्यतरच वेद्यम् उच्चैस्तथा गोत्रम् । मनुजायुष्कं च स एकादशं वेदयति कर्मणां प्रकृतीः वेदयति तु तीर्थकरो द्वादशसहतीर्थकृत्त्वेन सततो देहत्रयमोक्षार्थमनिवर्ति सर्वगतमुपयाति समुच्छिन्नयिमतमस्कं परं ध्यानं व्युपरतक्रियमनिवर्तीत्यर्थः। तद्धि तावनिवर्तते यावन्न मुक्तः॥४१॥
१ 'वीर्यत्वे' इति ङ-पाठः । २ ‘पदानुगतं' इति ङ-पाठः । ३ 'क्रिया' इति ङ-पाठः । ४'निरुद्धं ' इति ङ-पाठः। ५'वयवलेश्याः ' इति ग-पाठः। ६ नामनि' इति ग-पाठः । ७ 'प्रकृतयः' इति ङ-पाठः। ८ 'क्रिययातमस्कं' इति ङ-पाठः। ९ 'गच्छे' इत्यधिको ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org