________________
२७६
.
तत्त्वार्थाधिगमसूत्रम्
- [अध्यायः ९ "अप्रतिपाति ध्यायन् , कश्चित् सूक्ष्मक्रिय 'विहृत्यन्ते ।। आयुःसमीक्रियाऽर्थ, त्रयस्य गच्छेत् समुद्धातम् ॥१॥-आर्या आर्द्राम्बराशुशोषव-दात्मविसारणविशुष्कसमकर्मा ।
समयाष्टकेन देहे, स्थित्वा योगात् क्रमाद् द्वन्द्वे ॥ २॥" तथाऽन्य आह
आयुषि समाप्यमाने, शेषाणां कर्मणां यदि समाप्तिः । न स्यात् स्थितिवैषम्याद्, गच्छति स ततः समुद्धातम् ॥१॥-आर्या स्थित्या च बन्धनेन, च समीक्रियार्थ हि कर्मणां तेषाम् । अन्तर्मुहूर्तशेषे, तदायुषि समुज्जिघांसति सः ॥२॥आर्द्र विरल्लितं सद्, वस्त्रं मझ्वेव ननु विनिर्वाति । संवेष्टितं तु न तथा, तथा हि कर्मापि मूर्तत्वात् ॥ ३॥- , . स्नेहक्षयसाम्यात् (स्थितिबन्धनहेतुर्हि) स्नेहः स च हीयते समुद्घातात् । क्षीणस्नेहं शटति हि भवति तदल्पस्थिति च शेषम् ॥४॥-, आयुष्कस्यापि विरल्लितस्य, न हास्यते स्थितिः कस्मात् ।। इति वा चोधं चरम-शरीरोऽनुपक्रमायुर्यत् कङ्कटुकवत् ॥ ५॥ दण्डकपाटकरुचक-क्रिया जगत्पूरणं चतुःसमयम् । क्रमशो निवृत्तिरपि च त-थैव प्रोक्ता चतुःसमया ॥ ६॥ - विकसनसङ्कोचनधर्मत्वाज्जीवस्य तत् तथा सिद्धम् । यच्चाप्यनन्तवीर्य, तस्य ज्ञानं च गततिमिरम् ॥ ७॥ -, शेषायाः शेषायाः, समये संहत्य सङ्ख्येयान् ।। भागान् स्थितेरनन्तान् , भागान् शुभानुभावस्य ॥ ८॥ -, स ततो योगनिरोधं, करोति लेश्यानिरोधमपि काङ्क्षन् । समसमयस्थितिं बन्धं, योगनिमित्तं स हि रुरुत्सन् ॥ ९॥-, समये समये कर्मा-दाने सति सन्ततेने मोक्षः स्यात् । यद्यपि हि न मुच्यन्ते, स्थितिक्षयात् पूर्वकर्माणि ॥१०॥ -" नोकर्माणि हि वीर्य, योगद्रव्येण भवति जीवस्य । तस्यावस्थाने ननु, सिद्धः समयस्थितिबन्धः ॥ ११॥ -,
१ 'विकृत्यन्ते' इति च-पाठः। २ ग-च-छ-प्रतिष्वपि चिह्निताक्षराण्यधिकानि सन्ति। ३ 'वितरति' इति च-पाठः । ४ 'तद् भास्यते' इति ग-पाठः। ५'प्रोक्तश्चतुःसमये' इति ङ-पाठः। ६ 'नोकर्मणा हि' इति ङ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org