________________
२७५
सूत्रे ४०-४१] स्वोपज्ञभाष्य-टीकालङ्कृतम्
तस्य हि तस्मिन् समये, केवलमुत्पद्यते गततमस्कम् । ज्ञानं च दर्शनं चा-वरणद्वयसङ्ख्याच्छुद्धम् ॥ १२ ॥- आर्या चित्रं चित्रपटनिभं, त्रिकालसहितं ततः सलोकमिमम् । पश्यति युगपत् सर्व, सालोकं सर्वभावज्ञम् ॥ १३ ॥- , वीर्य निरन्तरायं, भवत्यनन्तं तथैव तस्य तदा । कल्पातीतस्य महा-त्मनोऽन्तरायक्षयः कात्ात् ॥ १४ ॥--,, स ततो वेदयमानो, विहरति चत्वारि शेषकर्माणि ।
आयुष्यस्य समाप्ति-यावत् स्याद् वेद्यमानस्य ॥१५॥"-, भाष्यकारस्तु पूर्वविद इति सूत्रावयवं पृथग् विवृणोति सम्बन्धयति । एवमेते शुक्लध्याने पूर्वविदो भवतः ॥३९॥
सूत्रम्-पूर्वविदः॥९-४०॥ भा०-आद्ये शुक्ले ध्याने पृथक्त्ववितकैकत्ववितर्के पूर्वविदो भवतः॥४०॥
टी.-पूर्वविदो यौ उपशान्तक्षीणकषायौ तयोर्भवतः। सूत्रान्तरमिव व्याचष्टे, न तु परमार्थतः पृथक सूत्रम् । पूर्व प्रणयनात् पूर्वाणि चतुर्दश तद्विदः पूर्वविदस्ते भवन्ति नैकादशाङ्गविदः। एवमाघशुक्लध्यानद्वयस्य स्वामिनियमनं विहितम् ॥ ४०॥
अथ पश्चाच्छुक्लध्यानद्वयस्य कः स्वामीति तनिर्दिदिक्षयोवाच
सूत्रम्-परे केवलिनः॥९-४१॥
भा०-परे वे शुक्ले ध्याने केवलिन एव भवतः, न छद्मस्थस्य ॥४१॥ . अन्तिमशध्यान- अत्राह-उक्तं भवता पूर्वे शुक्ले ध्याने परे शुक्ले ध्याने . वयस्य स्वामिनः इति । तत् कानि तानीति ? अनोच्यते
टी-परं च परं च परे सूत्रसन्निवेशमाश्रित्य सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रिय चानिवर्ति ग्रहीतव्यं, ते च केवलिन एव त्रयोदशचतुर्दशगुणस्थानक्रमेणैव भवतः। छमस्थस्य तु नैते जातुचिद् भवत इति तत्र सूक्ष्मक्रियमप्रतिपातीति । सूक्ष्मा क्रिया यत्र तत् सूक्ष्मक्रियम् । तच्च योगनिरोधकाले भवति । वेद्य-नाम-गोत्रकर्मणां भवधारणायुष्कादधिकानां समुद्धातसाम
र्थ्यादचिन्त्यैश्वर्यशक्तियोगादायुष्कसमीकृतानां मनो-वाक्-काययोगपरिणतस्यौदारिकशरीरत्रिभागोनस्थस्य केवलिनः संज्ञिपञ्चेन्द्रियपर्याप्तकमनोऽसङ्खयेयगुणकहीनं सूक्ष्मयोगित्वमप्रतिपात्यच्युतस्वभावमा व्युपरतक्रियानिवृत्तिध्यानावाप्तेः । उक्तं च---
१ 'भावज्ञः' इति -पाठः। २ 'शुभध्याने ' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org