________________
२७४
तत्वार्थाधिगमसूत्रम्
एव योगस्त्रयाणामन्यतमस्तथा अर्थो व्यञ्जनं चैकमेव पर्यायान्तरानर्पितमेकपर्यायचिन्तनमुत्पादव्ययधौव्यादिपर्यायाणामेकस्मिन् पर्याये निवातशरणप्रतिष्ठितप्रदीपवनिष्प्रकम्पं, पूर्वगतश्रुतानुसारि चेतो निर्विचारमर्थव्यञ्जनयोगान्तरेषु तदेकत्ववितर्कमविचारम् । आह च
'क्षीणकषायस्थानं, तत् प्राप्य ततो विशुद्धलेश्यः सन् । एकत्ववितर्कावीचारं ध्यानं ततोऽध्येति ॥ १ ॥ - एकार्थाश्रयमिष्टं, योगेन च केनचित् तदेकेन । ध्यानं समाप्यते यत्, कालोऽल्पोऽन्तर्मुहूर्तश्च ॥ २ ॥ — श्रुतमुच्यते वितर्कः, पूर्वाभिहितार्थनिश्चितमतेश्च । ध्यानं तदिष्यते येन तेन सवितर्कमिष्टं तत् ॥ ३॥― अर्थव्यञ्जनयोगा-नां सङ्क्रान्तिरुदितो हि विचारः । तदभावात् तद् ध्यानं, प्रोक्तमविचारमर्हद्भिः ॥ ४॥― व्युत्सर्गविवेकात् सं-मोहाव्ययलिङ्गमिष्यते शुक्लम् |
Jain Education International
44
आर्या
प्रीत्यप्रीतिविरहितं ध्यायंस्तदुपेक्षकः प्रसन्नं सः ॥ ६ ॥ - प्राप्नोति परं ढादं, हिमातपाभ्यामिव विमुक्तम् । तेन ध्यानेन यथा - ख्यातेन च संयमेन घातयति ॥ ७ ॥ -- शेषाणि धातिकर्माणि युगपदपरञ्जनानि ततः । कात्स्यान्मस्तकशूच्यां यथा हतायां हतो भवति तालः ॥कर्माणि क्षीयन्ते, तथैव मोहे हते कात्स्यत् ॥ ८ ॥ - निद्राप्रचले द्विचरम -- समये तस्य क्षयं समुपयातः । चरमान्ते क्षीयन्ते, शेषाणि तु धातिकर्माणि ॥ ९॥ आवरणचरमसमये, तस्य दयाभावितात्मनो भवति । जीवैस्ततं जगत् पश्यतो हि भावक्षयोपशमः ॥ १० ॥ शटितप्रायं हि तदाssवरणं परमावधिश्च भवति तदा । अथ कात्स्यत् तत्पतनाद् द्वितीयसमये क्षयायैति ॥ ११ ॥
19
For Private & Personal Use Only
"
न च सम्भवन्ति कान्यें - न तानि लिङ्गानि मोहवतः ॥ ५ ॥ -,, व्युत्सर्गः सङ्गत्यागः देहोपधीनां विवेकः ।
77
77
""
[ अध्यायः ९
99
"
22
19
१ निवातव्यशरणमप्रति' इति छ- पाठः । २ ' योग्यन्तरेषु इति ङ-पाठः । ३ ' मुहूर्तः सः' इति ङपाठ: । ४ ' वीचारः' इति ङ-पाठः । ५ यद्यपि इयं पङ्क्तिः सर्वासु प्रतिषु समस्ति तथापि अशुद्धेव सा प्रतिभाति । ६' विमुक्तः ' इति ङ-पाठः । ७ ' समुपघातः ' इति च - पाठः । ८' क्षयात्राम' इति छ -पाठः । ९ ' समयोपक्षयायैति' इति च - पाठः ।
"
www.jainelibrary.org