SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ सूत्र ३९] स्वोपज्ञभाष्य-टीकालङ्कृतम् २७३ क्षपयति तेन ध्यानेन ततोऽनन्तानुबन्धिनश्चतुरः। मिथ्यात्वं संमिश्र, सम्यक्त्वं च क्रमेण ततः ॥११॥-आर्या . क्षीयन्ते हि कषायाः, प्रथमास्त्रिविधोऽपि दृष्टिमोहश्च ।। देशयतायतसम्यग्--दृगप्रमत्तप्रमत्तेषु ॥ १२ ॥"--- , एवं पूर्वोक्तेन क्रमेण क्षपयन् कर्मप्रकृतीरुपशान्तकंपायस्थानप्राप्त उपशान्तकषायः क्षीणकषायश्च भवतीति ॥ ३८ ॥ उपशान्तक्षीणकषाययोश्चेत्युक्तमविशेषेण धर्मध्यानं, ततधैकादशाङ्गविदो द्रष्टव्यम् । एवमवस्थिते किं धर्ममेव ध्यानं तयोः ? नेत्युच्यते । किश्चान्यदिति सम्बभाति । न केवलमेतयोधयं, शुक्लं च ध्यानमुपशान्तक्षीणकपाययोर्भवति । किं चतुर्विधमपि-पृथक्त्ववितक एकत्वसविचारं सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियमनिवर्तीति ?। उच्यते न खलु चतुष्प्रकारमपि तयोः शुक्लध्यानं भवति, किं तर्हि ? सूत्रम्--शुक्ले चाद्ये ॥९-३९ ॥ भा०-शुक्ले चाये ध्याने पृथक्त्ववितकैकत्ववितर्के 'चोपशान्तक्षीणकषाययोर्भवतः ॥ ३९ ॥ टी-शुक्ले चाद्ये चे(इ?)ति । शुक्ले ध्याने उपशान्तक्षीणकषाययोर्भवतः । के पुनस्ते ? पृथक्त्वैकत्ववितर्के। स्वरूपतः कीदृशे ? । उच्यते-पृथग्र-अयुतकं भेदः तद्भावः पृथक्त्वम्-अनेकत्वं तेन सह गतो वितकेः, पृथक्त्वमेव वा वितकः सहगतं वितकेपुरोगं पृथक्त्ववितर्कम् । तच्च परमाणुजीवादावेकद्रव्ये उत्पादव्ययध्रौव्यादिपर्यायानेकतयाऽपि तत्त्वं तत् पृथक्त्वं पृथक्त्वेन पृथक्त्वे वा तस्य चिन्तनं वितर्कसहचरितं सविचारं च येत् तत् पृथक्त्ववितके सविचारं तच पृथक्त्वमर्थव्यञ्जनयोगानां वक्ष्यति-" त्र्येककाययोगायोगानां", "वितर्कः श्रुतं", " विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः" (अ०९, सू० ४३, ४६, ४७)। पूर्वगतभङ्गिकश्रुतानुसारेणार्थव्यञ्जनयोगान्तरप्राप्ति:-गमनं विचारः।अर्थाद् व्यञ्जनसङ्क्रान्तिः, व्यञ्जनादर्थसङ्क्रान्तिः, मनोयोगात् काययोगसङ्क्रान्तिर्वाग्योगसङ्क्रान्तिर्वा । एवं काययोगान्मनोयोग वाग्योग वा सङ्क्रामति । तथा वाग्योगान्मनोयोगं काययोगं वेति । यत्र सङ्क्रामति तत्रैव निरोधो ध्यानमिति । एकस्य भाव एकत्वं, एकत्वगतो वितर्क एकत्ववितर्कः। एक १' कषायस्थः क्षीणकषायः क्षीण.' इति छ-पाठः। २ स्थानप्राप्त उपशमकषायः' इति च-पाठः। ३.तर्क सवि.' इति ङ-पाठः। ४ ' उप० । इति ग-पाठः। ५'यत्र' इति च-पाठः। ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy