Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra
________________
३०० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १० मुक्तिगमने
सूत्रम्-पूर्वप्रयोगाद्, असङ्गत्वादू, बन्धच्छेदात्, तथाहेतवः गतिपरिणामाच्च तद्गतिः ॥ १०-६॥
भा०-पूर्वप्रयोगात् । यथा हस्तदण्डचक्रसंयुक्तसंयोगात् पुरुषप्रयत्नतश्चाविद्धं कुलालचक्रमुपरतेष्वपि पुरुषप्रयत्नहस्तदण्डचक्रसंयोगेषु पूर्वप्रयोगाद् भ्रमत्येवा संस्कारपरिक्षयात् ।
टी०-उपरतकर्तृव्यापाराद् यथा कुलालचक्रं 'हस्तदण्डचक्रसंयुक्तसंयोगात्' हस्तेन दण्डः संयुक्तः, दण्डेन चक्रं संयुक्त संयुक्तसंयोगः तस्मात् पुरुषप्रयत्नतश्च-पुरुषपरिस्पन्दाच आविद्धं-वेगितं प्रेरितं उपरतेष्वपि पुरुषव्यापारादिषु पूर्वप्रयोगात् हस्तादिव्यापारप्रेरणाद् भ्रमत्येव आ संस्कारपरिक्षयात्। संस्कारः-अनवरतक्रियाप्रबन्धः। दृष्टान्तेन दार्टान्तिकमर्थं समीकुर्वन्नाह
भा०-एवं यः पूर्वमस्य यत्कर्मणा प्रयोगो जनितः स क्षीणेऽपि कर्मणि गतिहेतुर्भवति । तत्कृता गतिः । किश्चान्यत्
टी०–एवं यः पूर्वमस्येत्यादि । योगनिरोधाभिमुखस्य यत् कर्म-क्रिया तेन कर्मणा यः प्रयोगो जनितः स क्षीणेऽपि कर्मणि अविच्छिन्नसंस्कारत्वात् योगाभावेऽपि गतिहेतुभवति । तेन हेतुना क्रियते गतिरित्यर्थः। किश्चान्यदिति द्वितीयं हेत्वन्तरमुपन्यस्यति
भा०-असङ्गत्वात् । पुद्गलानां जीवानां च गतिमत्त्वमुक्तं, नान्येषां द्रव्याणाम् । तत्राधोगौरवधर्माणः पुद्गलाः, ऊर्ध्वगौरवधर्माणो जीवाः । एष स्वभावः ।
टी०-असङ्गत्वादिति । सङ्गः-स्खलनं तद्भावः सङ्गत्वं, स्खलितत्वमित्यर्थः। न सङ्गत्वमसङ्गत्वम्-अस्खलितत्वं तस्मादसङ्गत्वात् सिद्धस्योर्ध्व गतिः सिद्धा । न हि स्वाभाविक्या गत्या गच्छन्नूवं कचित् स्खलनमासादयति । एतब्याख्यानायाह-पुद्गलानामित्यादि। पूरणाद् गलनाच पुद्गलाः-परमाणुप्रभृतयः। जीवास्तु ज्ञानदर्शनोपयोगलक्षणाः। एषां पुद्गलजीवानां गतिमत्त्वमुक्तं, नान्येषां-धमोधमोकाशद्रव्याणाम्। तत्र स्वभावत एव अध:अधस्तात् गौरवं भारिकत्वं, परिणामविशेषः। गौरवं धर्मो येषां ते गौरवधर्माणः पुद्गलाः ऊर्ध्वगौरवधर्माणो जीवा इति । जीवानामपि तादृशं गौरवं परिणामविशेषो लाघवं येषामिति । एवंविधं तेषां गौरवं विशिष्टं येनोवं गच्छन्ति एषा(प ?) पुद्गलानां च स्वभावः। . १ 'चक्रसंयोगात् ' इति ग-पाठः । २ · मस्य कर्मणा' इति घ-पाठः। ३ 'मिख्यस्य ' इति च-पाठः । ४ 'गतित्व' इति ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472