Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 389
________________ २८७ सुत्रं ४९] स्वोपज्ञभाष्य-टीकालङ्कृतम् श्रुतं कियत् कस्येत्याह भा०-श्रुतम् । पुलाक-बकुश-प्रतिसेवनाकुशीला उत्कृष्टेनाभिन्नाक्षरदशपूर्वधराः। कषायकुशील-निर्ग्रन्थौ चतुर्दशपूर्वधरौ । जघन्येन पुलाकस्य श्रुतमाचारवस्तु । बकुश-कुशील-निग्रन्थानां श्रुतमष्टौ प्रवचनमातरः । श्रुतापगतः केवली स्नातक इति ॥ टी-पुलाक-बकुश-प्रतिसेवनाकुशीला उत्कर्षेण अभिन्नाक्षराणि दश पूर्वाणि धारयन्ति । अभिन्नम्-अन्यूनमेकेनाप्यक्षरेणान्यूनानि दश पूर्वाणीत्यर्थः। कषायकुशीलो निर्ग्रन्थश्च चतुर्दशपूर्वधर उत्कर्षतः । जघन्येन पुलाकस्य नवमपूर्वान्तःपाति तृतीयमाचारवस्तु यावच्छूतम् । बकुश-कुशील-निर्ग्रन्थानामष्टौ प्रवचनमातरः । . श्रुतरहितः केवलीति । आंगमस्त्वन्यथा व्यवस्थितः-"पुलाए णं भंते आगमे मतभेदः केवतियं सुयं अहिजि(ज्जे? )ज्जा ? गोयमा ? जण्हणेणं णवमस्स पुव्वस्स तत्तियं आयारवत्थु, उक्कोसेणं नव पुव्वाई संपुण्णाई, बउसपडिसेवणाकुसीला जहण्णेणं अट्ठपवयणमायाओ, उक्कोसेणं चोद्दस पुवाई अहिजिज्जा कसायकुशीलनिग्गंथा जहण्णेणं अहपवयणमायाओ उक्कोसेणं चोद्दस पुव्वाइं अहिजिजा ॥" सम्प्रति प्रतिसेवनामाश्रित्योच्यते भा०-प्रतिसेवना पश्चानां मूलगुणानां रात्रिभोजनविरतिषष्ठानां पराभियोगाद् बलात्कारेणान्यतमं प्रतिसेवमानः पुलाको भवति । मैथुनमित्येके ॥ टी०-प्रतिसेवना पश्चानामित्यादि । मूलगुणाः प्राणातिपातनिवृत्त्यादयः पञ्च क्षपाभोजनविरतिश्च तानपरेणाभियुज्यमानः सेवते । पराभियोगादित्यस्यैव व्याख्याबलात्कारेण वा परेणाभियुक्तः प्रेरितो यदा भवति तदा प्रवर्तते, न स्वरसत एव । परैस्तु राजादिभिर्बलात्कारेण प्रवत्यते । तदेवमन्यतमं मूलगुणं प्रतिसेवमानः पुलाको भवति । मैथुनमित्येके । अपरे आचक्षते-मैथुनमेवेत्थं पराभियोगात् बलात्कारेण सेवां कार्यते स पुलाकः, न प्राणातिपातं सेवमान इति । अत्राप्यन्यथैवागमः-"पुलाए णं भंते ! किं पडिसेवए _ होजा अप्पडिसेवए होज्जा ? गोयमा! पडिसेवए, नो अपडिसेवए । जइ मतान्तरम् पडिसेवए किं मूलगुणपडिसेवए उत्तरगुणपडिसेवए ? मूलगुणपडिसेवए १ 'आगमरहितः' इति ग-पाठः। २ कोऽयमागम इति न निर्णीयते, सदृक् पाठस्तु समस्ति भगवत्यां (श० २५, उ० ६, सू० ७५७)। ३ छाया-पुलाको भदन्त ! कियत् श्रुतमधीयेत ? गौतम ! जघन्येन नवमस्य पूर्वस्य तृतीयमाचारवस्तु, उत्कृष्टेन नव पूर्वाणि सम्पूर्णानि, बकुशप्रतिसेवनाकुशीलौ जघन्येन अष्टप्रवचनमातरः, उत्कृष्टेन चतुर्दश पूर्वाणि अधीयेयाताम् । कषायकुशीलनिर्ग्रन्थौ जघन्येन अष्टप्रवचनमातरः, उत्कृष्टेन चतुर्दश पूर्वाणि अधीयेयाताम् । ४ 'दस पुव्वाई' इति मुद्रितायां भगवत्याम। ५ प्राय ईहक पाठो वर्तते भगवत्यां (श० २५, उ०६.स.७५५)। ६ पुलाको भदन्त ! किं प्रतिसेवको भवेत् अप्रतिसेवको भवेत् । गौतम 1 प्रतिसेवकः नो अप्रतिसेवकः । यदि प्रति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472