Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 396
________________ २९४ तत्वार्थाधिगमसूत्रम् • [ अध्यायः १० अभावोऽपि हि निमित्तं भवति यथा विपक्षे हेतुरभावद्वारेण गमकः । तत्क्षयादुत्पद्यत इति, घातिकर्मक्षयाज्जायत इत्यर्थः । अतस्तद्विगमलक्षणो गुणो हेतुः । "विभाषा गुणेऽस्त्रियां" ( पा० अ० २, पा० ३, सू० २५ ) इति ॥ भा० - हेतौ पञ्चमीनिर्देशः । मोहक्षयादिति पृथकरणं क्रमप्रसिद्ध्यर्थम् । यथा - गम्येत पूर्व मोहनीयं कृत्स्नं क्षीयते । ततोऽन्तर्मुहूर्त छद्मस्थवीतरागो भवति । ततोऽस्य ज्ञान दर्शनावरणान्तरायप्रकृतीनां तिसृणां युगपत् क्षयो भवति । ततः केवलमुत्पद्यत इति ॥ १ ॥ टी० - हेतौ पञ्चमीनिर्देशः । मोहक्षयादिति । सापेक्षे कर्मचतुष्टये व्यपेते निरावरणो जीवस्वभावो ज्ञानदर्शनलक्षणः सदा चकास्ति । तस्य च सापेक्षकर्मविगमो निमित्तं किरणमालिन इवातिबलाभ्रपटलप्रच्छादितमण्डलस्य सङ्कुचित किरणकलापस्य तदपगमे निरावरणसमस्तगभस्तिविस्तरणवद् विकसति ज्ञानं दर्शनं च । मोहक्षयादिति पृथक्करणं प्रतिविशिष्टक्रमप्रसिद्ध्यर्थम् । क्रमप्रसिद्धिः यथाऽऽगमे तत् प्राङ्मोहनीयक्षय एव सर्वस्य मुमुक्षोः । ततश्च मोहसागरमुत्तीर्यान्तर्मुहूर्तमात्रं विश्राम्यति छद्मस्थवीतरागावस्थः । ततोऽस्य ज्ञानदर्शनावरणान्तरायक्षयो युगपदेव भवति । तत्समनन्तरमेव च केवलज्ञानं केवलदर्शनं चोपजनमासादयति । यथोक्तमागमे वीसमिऊण नियंठो” इत्यादि “ चरिमे नाणावर " इत्यादि ॥ १ ॥ भा० – अत्राह-उक्तं ( पृ० २९३ ) मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलमिति । अथ मोहनीयादीनां क्षयः कथं भवतीति ? । अत्रोच्यते टी० – अत्राह – उक्तमित्यादिनोत्तरसूत्रं सम्बध्नाति । मोहक्षयात् केवलज्ञानोत्यत्तिः । अथैषां मोहादीनां क्षयः कथं केन प्रकारेण भवतीति । अयमभिप्रायः प्रश्नयतः - यावदपि सकषाययोगस्तावदपि कर्म सततं बध्नाति कषाययोगप्रत्ययम् । तच्च प्रतिक्षणं मन् कथं क्षयं करोतीति ? । अत्रोच्यत इत्याह कर्मपरिक्षये हेतु सूत्रम् — बन्धहेत्वभाव - निर्जराभ्याम् ।। १०-२ ॥ टी० - आत्मप्रदेशानां कर्मपुद्गलानां चान्योन्यानुगतलक्षणः क्षीरोदकवद् बन्धः । तस्य हेतुर्मिथ्यादर्शनादिपञ्चविधः । तस्य हेतोरभावादपूर्वकर्मागमो नास्ति । प्रथमबद्धस्य च निर्जरणं निर्जरा - आत्मप्रदेशेभ्यः परिशटनं कर्मणः । बन्धहेत्वभावश्च निर्जरा च बन्धहेत्वभावनिर्जरे ताभ्यां हेतुभ्यां कर्मपरिक्षयः ॥ १ ' तथा विपक्षे ' इति ङ-पाठः । २-३ छाया विश्रामयित्वा निर्ग्रन्थः; चरमे ज्ञानावरणम् । ४' सन्तानं ' इति ग-पाठः । ५ ' प्रदेशिनां ' इति ग-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472