Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 395
________________ श्रीपरमगुरुभ्यो नमः। दशमोऽध्यायः १० उपक्रमः टी-निर्दिष्टे संवर-निर्जरे "आस्रवनिरोधः संवरः" (अ० ९, सू० १), " तपसा . निर्जरा च" (अ० ९, सू० ३) इति । सम्प्रति तत्फलं मोक्षः तं वक्ष्यामः । स च केवलज्ञानोत्पत्तिमन्तरेण न जातुचिर्दभूद् भवति भविष्यति । अतः केवलोत्पत्तिमेव तावद् वक्ष्यामःसूत्रम्-मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच केवलम् ॥ १०-१॥ टी-अथवा तपसा निर्जरातश्च कर्मणां केवलज्ञानमुत्पद्यते । तत् केषां कर्मणां निर्जरातः केन वा क्रमेण निर्जरणे सति केवलज्ञानमाविर्भवतीति ? | तानि कर्माणि क्रम चानेव सूत्रेण दर्शयति-मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच केवलम् ॥ ... भा०–मोहनीये क्षीणे ज्ञानदर्शनावरणान्तरायेषु क्षीणेषु च केवलज्ञानदर्शनमुत्पद्यते । आसां चतसृणां प्रकृतीनां क्षयः केवलस्य हेतुरिति । तत्क्षयादुत्पद्यते इति। टी-मोहनान्मोहोऽष्टाविंशतिभेदः पूर्वोक्तः (पृ० १४२)। तस्य क्षयो-निरवशेषतः परिशाटनमात्मप्रदेशेभ्यः । क्षीणे च सकलभेदमोहनीये ज्ञानावरणदर्शनावरणान्तरायेषु च पश्च-चतुः-पञ्चभेदेषु युगपत् क्षीणेषु-निरवशेषीकृतेषु केवलज्ञानं दर्शनमाविर्भवतिसमस्तद्रव्यपर्यायपरिच्छेदिघातिकर्मविगमादुत्पद्यते । यथोक्तम् " तस्य हि तस्मिन् समये, केवलमुत्पद्यते गततमस्कम् । ज्ञानं च दर्शनं चावरणद्वयसङ्क्षयाच्छुद्धम् ॥ १॥-आर्या चित्रं चित्रपटनिभ, त्रिकालसहितं ततः स लोकमिमम् । पश्यति युगपत् सर्वं, सालोकं सर्वभावज्ञाः ॥२॥" आसामिति सूत्रनिर्दिष्टानां कियतीनाम् ? चतसृणां कर्मप्रकृतीनां-कर्मस्वभावानां मोहन आच्छादनं विनकारित्वं चेति स्वभावाः । क्षयो-निःशेषसादः। केवलस्य ज्ञानस्य दर्शनस्य च । हेतुः कारणं निमित्तमिति पर्यायाः । फलसाधनयोग्यः पदार्थो हेतुरिति भाषितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472