Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 393
________________ . सूत्र ४९] स्त्रोपज्ञभाष्य-टीकालङ्कृतम् २९१ .... टी--असङख्येयानीत्यादि । स्थानमित्यध्यवसायस्थानं परिणामस्थानं संयमस्थानमिति पर्यायाः । तत्र यावत् सकषायस्तावत् सक्लेशविशोधयोऽवश्यम्भाविन्यः । क्षीणकषायस्य तु विशोधिरेव, न सक्लेशः । तत्र सकषायस्यासङ्ख्येयानि संयमस्थानानि भवन्ति । तत्रैकस्य प्रथमसंयमस्थानस्य पर्यायपरिमाणमिदमागमोक्तम् "संव्यागासपदेसग्गं सव्वागासपएसेहिं अणंतगुणियं पढम संजमहाणं भवति"। का पुनर्भावना ? उच्यते"सेव्वगयं संमत्तं सुए चरित्ते ण पज्जवा सव्वे । देसविरतिं पडुच्च दोण्ह वि पंडिसेहणं कुज्जा ॥१॥ -आर्या सबद्दव्याणि जतो सबद्दव्वाण पज्जवा जे य । सव्वा णय बोधव्या तिकालविसयम्मि जे भणिया ॥२॥-, सव्वे वि य सद्दहओ सबस्स उवएसतो व संमत्तं । तविवरीयं मिच्छत्तं दरिसणं देसियं समए ॥ ३॥ -, एएणं कारणेणं सव्वागासपएसग्गं सव्यागासप्पएसेहिं अणंतगुणियं पढम संजमहाणं पज्जायवग्गेण भवति । ततो एयं चेव पढम संजमहाणं एयप्पमाणपरिणामविसुद्धिनिमित्तेणाधिगतरं भवति । ततो पढमं संजमहाणपरिणामविसुद्धाओ बीयं संजमहाणपरिणामो विसुद्धतरो त्ति काउं पढमसंजमहाणाओ बीयं संजमहाणं अणंतभागमभहियं । एतेण चेव कमेण बीया १ छाया सर्वाकाशप्रदेशकं सर्वाकाशप्रदेशैः अनन्तगुणितं प्रथमं संयमस्थानं भवति । २ आवश्यकनियुक्तेरियं ८३०तमी गाथा। तच्छाया 'चैवम् सर्वगतं सम्यक्त्वं सूत्रे चारित्रे न पर्यवाः सर्वे । देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधनं कुर्यात् ॥ ३ 'सेवणे' इति च-पाठः। ४ छाया सर्वद्रव्याणि यतो सर्वद्रव्याणां पर्यवा ये च। सर्वे नया बोधव्यास्त्रिकालविषये ये भणिताः ॥ सर्वेऽपि च श्रद्धधतः सर्वस्य उपदेशात् वा सम्यक्त्वम् । तद्विपरीतं मिथ्यात्वं दर्शनं देशितं समये ॥ तेन कारणेन सर्वाकाशप्रदेशगं सर्वाकाशप्रदेशैरनन्तगुणितं प्रथम संयमस्थानं पर्यायवर्गेण भवति । तत एतत् चैव प्रथमं संयमस्थानं एतत्प्रमाणपरिणामविशुद्धिनिमित्तेन अधिकतरं भवति । ततः प्रथमं संयमस्थानपरिणामविशद्धेर्द्वितीयं संयमस्थानपरिणामो विशुद्धतर इति कृत्वा प्रथमसंयमस्थानाद् द्वितीयं संयमस्थानमनन्तभागमभ्यधिकम् । एतेन चैव क्रमेण द्वितीयात् तृतीयमनन्तभागमभ्यधिकं यावत् चरममनन्तभागमभ्यधिकम् । - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472