Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra
________________
२८८ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ९ उत्तरगुणपडिसेवए य । मूलगुणे पडिसेवमाणे पंचण्हं महव्वयाणं अण्णयरं पडिसेवे उत्तरगुणे पडिसेवमाणे दसविहस्स पञ्चक्खाणस्स अण्णयरं पडिसेवेज्जा ॥" भा०-बकुशो विविधः-उपकरणबकुशः शरीरबकुशश्च । तत्रोपकर
_ णाभिष्वक्तचित्तो विविधविचित्रमहाधनापकरणपरिग्रहयुक्तो बकुशस्य द्वैविध्यम् ॥
'बहुविशेषोपकरणाकाङ्क्षायुक्तो नित्यं तत्प्रतिसंस्कारसेवी भिक्षुरुपकरणबकुशो भवति ॥
टी-बकुशो द्विधा-उपकरण-शरीरभेदात् । तत्र-तयोरुपकरणबकुश उपकरणेवस्त्र-पात्रादौ अभिष्वक्तचित्तः-प्रतिबद्धस्नेहः समुपजाततोषः। वस्त्रं विविधं देशभेदेन पौण्ड्रवर्धनककासाकुलकादि । पात्रमपि पुरिकांगन्धधारकप्रतिग्रहकादिविचित्रं रक्तपीतबिन्दसितपट्टकादिप्रचितं महाधर्न-महामूल्यम् । एवमादिना उपकरणपरिग्रहेण युक्तो ममेदं स्वं अहमस्य स्वामीत्युपजातमूर्छः पर्याप्तोपकरणोऽपि भूयो बहुविशेषोपकरणकाङ्क्षायुक्तः बहुविशेषो यत्र मृदु-दृढ-श्लक्ष्ण-घन-निचित-रुचिरवर्णादि तादृश्युपकरणे लब्धव्ये जातकाङ्क्षो-जाताभिलाषः । सर्वदा च तस्योपकरणस्य प्रतिसंस्कारं प्रक्षालनदशाबन्धघटिकासंवेष्टनादिकं सेवमानस्तच्छील उपकरणबकुशः ॥
___भा०-शरीराभिष्वक्तचित्तो विभूषार्थ तत्प्रतिसंस्कारसेवी शरीरबकुशः। प्रतिसेवनाकुशीलो मूलगुणानविराधयन् उत्तरगुणेषु काश्चिद् विराधनां प्रतिसेवते । कषायकुशील-निर्ग्रन्थ-स्नातकानां प्रतिसेवना नास्ति ॥
टी-शरीरबकुशस्तु शरीराभिष्वक्तेत्यादि । तस्य-शरीरस्याभ्यञ्जनोद्वर्तनस्नानादिक प्रतिसंस्कार सेवमानस्तच्छील एव भवति । एष चोत्तरगुणभ्रंशकारी, न तु मूलगुणान् विराधयति । यथोक्तमागमे-"बंउसे पुच्छा । गोयमा ! नो मूलगुणपडिंसेवी होज्जा उत्तरगुणपडिसेवी होज्जा । उत्तरगुणे पडिसेवमाणे दसविहस्स पच्चक्खाणस्स अण्णयरं पडिसेवेज्जा"।
सेवकः किं मूलगुणप्रतिसेवक उत्तरगुणप्रतिसेवकः ? मूलगुणप्रतिसेवकः उत्तरगुणप्रतिसेवकश्च । मूलगुणान् प्रतिसेवमानः पञ्चानां महाव्रतानां अन्यतरं प्रतिसेवेत उत्तरगुणान् प्रतिसेवमानो दशविधस्य प्रत्याख्यानस्य अन्यतरं प्रतिसेवेत ।
१'काङ्गधारक' इति ग-पाठः ।
- २ छाया
बकुशे पृच्छा । गौतम ! नो मूलगुणप्रतिसेवी भवेत् , उत्तरगुणप्रतिसेवी भवेत् । उत्तरगुणान् प्रतिसेवमानों दशविधस्य प्रत्याख्यानस्यान्यतरं प्रतिसेवेत ।
- ३ 'सेवए' इति भगवस्यां (श० २५, उ० ६, सू० ७५५)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472