Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra
________________
उत्तरपक्षः
सूत्रं १९] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२४३ जैनानां नास्त्येव मोक्ष इति । अत्रोच्यते-द्विविधः कर्मपरिपाकहेतुर्भग
व वद्भिक्तः-स्थितिक्षयस्तपश्च । तत्र प्रणिधानादिगमनमन्तरेण कर्मक्षयः स्थितिक्षयात् । यथोक्तं (अ० ८, सू० १५-१८)-" आदितस्तिमृणामन्तरायस्य च त्रिंशत् सागरोपमकोटीकोव्यः परा स्थितिः, सप्ततिर्मोहनीयस्य, नामगोत्रयोविंशतिः त्रयस्त्रिंशत् सागरोपमाण्यायुष्कस्य" इति च । स्फुटमिदं प्रणिधानमन्तरेण स्थितिक्षयात् कर्मविनाशः । तथा अपरं कर्मक्षपणार्थमर्हता दर्शितं तपो द्विविधम्-अभ्यन्तरं बाह्यं च । एकैकं चापि पइभेदम् । लोके परसमयेषु च यत् प्रथितं तत् तपो भवति बाह्यम् । अभ्यन्तरमप्रथितं कुशलजनेनैव तु ग्राह्यं तथैतदागोपालाङ्गनादिजनप्रसिद्धमशुभकर्मक्षपणकारीति । रात्रावभोजनं चैकभोजनं निष्प्रतिक्रियत्वं च रोमनखधारणं वृक्षमूलवीरासनादीनि अज्ञातपिण्डपातोत्थादप्रतिबद्धमटन
मामरणात् । अदर्शनधावनचीवरधारणभूकाष्ठशय्याश्च इत्येवमादयः कायस्य तपोलक्षणम्
क्लेशा ननु प्रसह्यन्ते सर्वैरपि पापण्डिभिः । अतस्तपस्तद् भवति सिद्धं दुःखसहनार्थितालक्षणं सुखेऽनादरस्तपः कष्टं देहत्यागो वीर्योद्यमौ च विषयेष्वसङ्गत्वं स्वात्मवशीकरणं च । प्रियधर्माणां च वीर्यसञ्जननं कायक्लेशस्य गुणाः प्रभावना ध्यानदाढ्यं च । तपसः सार्थकता ।
... ततश्चैवं प्रमाणयतो मायासूनवीयस्य 'आर्हतानामात्मसन्तापनाद्युपक्रमवि
" शेषवैयर्थ्यम' (पृ० २४२) इति लोकविरोधिनी प्रतिज्ञा। लोके त्वविगानतोऽनशनादितपः प्रसिद्धं कर्मक्षयकृत् , तदपढुवानस्य परिस्फुट एव लोकविरोधः । तथा मध्याहादुपर्योदनादि न भोक्तव्यं बुभुक्षितेनापि । रात्रौ च कालोपस्थायिभिक्षुदर्शननिमित्तगर्भपातादीनां च दर्शनान्न भोक्तव्यं इति । कालविशेषाश्रयणेन नीरुजस्यापि अशनप्रतिषेध उक्तो वृक्षमूलासेवित्वनिष्प्रतिक्रियत्वादि च कायक्लेशलक्षणं तपः स्वागमेऽभ्युपेतमिति । अतस्तपोऽकिञ्चित्करमित्यागमविरोधः । तथा सर्वज्ञप्रणीतागमानुसारिलोचमौण्ड्यातापनादिकः कायक्लेशः प्रतिविशिष्टेष्टफलः आगमचोदितत्वे सति कायक्लेशत्वाद् वृक्षमूलासेवित्वनिष्प्रतिक्रियादिवत् । अन्यजन्मकृतकर्मफलोपभोगित्वादिति यद्यन्यजन्मकृतं ददाति स्वतन्त्रसेवनोपभोक्तुः कश्चिद् व्यापारः, ततो द्रव्य-क्षेत्र-काल-भावनिरपेक्षत्वादसिद्धो हेतुः । नहि किञ्चिदपि द्रव्यादिनिरपेक्षं फलमिष्टं जैनेन्द्रैर्येने कर्मणां विपाकोपशमावात्मचेष्टापूर्वको, न तु यादृच्छिकौ । अतः कथं व्यर्थता लोचमौण्ड्यादिक्रियायास्तदुदयहेतुकायाः ।। यथोक्तम्---
" यदि भाग्यं फलहेतु-ननु विफलो हेतुनाऽप्यनुपदेशः। न्यायया पाचयति नृणा-मीहा पुण्यं हि सापेक्षम् ॥१॥-आर्या
१ 'दिकाय ' इति ङ-पाठः । २ ' यतः कर्म ' इति ङ-पाठः । ३ ' यादृच्छिकादिवत् ' इति च-पाठः ।
For Private & Personal Use Only
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472