SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ उत्तरपक्षः सूत्रं १९] स्वोपज्ञभाष्य-टीकालङ्कृतम् २४३ जैनानां नास्त्येव मोक्ष इति । अत्रोच्यते-द्विविधः कर्मपरिपाकहेतुर्भग व वद्भिक्तः-स्थितिक्षयस्तपश्च । तत्र प्रणिधानादिगमनमन्तरेण कर्मक्षयः स्थितिक्षयात् । यथोक्तं (अ० ८, सू० १५-१८)-" आदितस्तिमृणामन्तरायस्य च त्रिंशत् सागरोपमकोटीकोव्यः परा स्थितिः, सप्ततिर्मोहनीयस्य, नामगोत्रयोविंशतिः त्रयस्त्रिंशत् सागरोपमाण्यायुष्कस्य" इति च । स्फुटमिदं प्रणिधानमन्तरेण स्थितिक्षयात् कर्मविनाशः । तथा अपरं कर्मक्षपणार्थमर्हता दर्शितं तपो द्विविधम्-अभ्यन्तरं बाह्यं च । एकैकं चापि पइभेदम् । लोके परसमयेषु च यत् प्रथितं तत् तपो भवति बाह्यम् । अभ्यन्तरमप्रथितं कुशलजनेनैव तु ग्राह्यं तथैतदागोपालाङ्गनादिजनप्रसिद्धमशुभकर्मक्षपणकारीति । रात्रावभोजनं चैकभोजनं निष्प्रतिक्रियत्वं च रोमनखधारणं वृक्षमूलवीरासनादीनि अज्ञातपिण्डपातोत्थादप्रतिबद्धमटन मामरणात् । अदर्शनधावनचीवरधारणभूकाष्ठशय्याश्च इत्येवमादयः कायस्य तपोलक्षणम् क्लेशा ननु प्रसह्यन्ते सर्वैरपि पापण्डिभिः । अतस्तपस्तद् भवति सिद्धं दुःखसहनार्थितालक्षणं सुखेऽनादरस्तपः कष्टं देहत्यागो वीर्योद्यमौ च विषयेष्वसङ्गत्वं स्वात्मवशीकरणं च । प्रियधर्माणां च वीर्यसञ्जननं कायक्लेशस्य गुणाः प्रभावना ध्यानदाढ्यं च । तपसः सार्थकता । ... ततश्चैवं प्रमाणयतो मायासूनवीयस्य 'आर्हतानामात्मसन्तापनाद्युपक्रमवि " शेषवैयर्थ्यम' (पृ० २४२) इति लोकविरोधिनी प्रतिज्ञा। लोके त्वविगानतोऽनशनादितपः प्रसिद्धं कर्मक्षयकृत् , तदपढुवानस्य परिस्फुट एव लोकविरोधः । तथा मध्याहादुपर्योदनादि न भोक्तव्यं बुभुक्षितेनापि । रात्रौ च कालोपस्थायिभिक्षुदर्शननिमित्तगर्भपातादीनां च दर्शनान्न भोक्तव्यं इति । कालविशेषाश्रयणेन नीरुजस्यापि अशनप्रतिषेध उक्तो वृक्षमूलासेवित्वनिष्प्रतिक्रियत्वादि च कायक्लेशलक्षणं तपः स्वागमेऽभ्युपेतमिति । अतस्तपोऽकिञ्चित्करमित्यागमविरोधः । तथा सर्वज्ञप्रणीतागमानुसारिलोचमौण्ड्यातापनादिकः कायक्लेशः प्रतिविशिष्टेष्टफलः आगमचोदितत्वे सति कायक्लेशत्वाद् वृक्षमूलासेवित्वनिष्प्रतिक्रियादिवत् । अन्यजन्मकृतकर्मफलोपभोगित्वादिति यद्यन्यजन्मकृतं ददाति स्वतन्त्रसेवनोपभोक्तुः कश्चिद् व्यापारः, ततो द्रव्य-क्षेत्र-काल-भावनिरपेक्षत्वादसिद्धो हेतुः । नहि किञ्चिदपि द्रव्यादिनिरपेक्षं फलमिष्टं जैनेन्द्रैर्येने कर्मणां विपाकोपशमावात्मचेष्टापूर्वको, न तु यादृच्छिकौ । अतः कथं व्यर्थता लोचमौण्ड्यादिक्रियायास्तदुदयहेतुकायाः ।। यथोक्तम्--- " यदि भाग्यं फलहेतु-ननु विफलो हेतुनाऽप्यनुपदेशः। न्यायया पाचयति नृणा-मीहा पुण्यं हि सापेक्षम् ॥१॥-आर्या १ 'दिकाय ' इति ङ-पाठः । २ ' यतः कर्म ' इति ङ-पाठः । ३ ' यादृच्छिकादिवत् ' इति च-पाठः । For Private & Personal Use Only Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy