________________
२४४
तत्त्वार्थाधिगमसूत्रम् .. [अध्यायः १ उभयोपशमौ युक्तौ; सापेक्षौ कर्मणोः शुभाशुभयोः। स्याद् विफलेहा सर्व, निरपेक्षं कर्म कल्पयतः ॥२॥-आर्या तस्मादवश्यभावा, अप्यास्ते प्रयोगतः सिद्धाः।
न त्विहं नौमिर्भवति, कदाचिदनुन्नं सलिलमन्यैः॥३॥"-आर्या । तस्मान्मुमुक्षोः श्राद्धस्य प्रवचनानुसारिप्रवृत्तौ स्ववीर्येण कर्मोदयमाविर्भावयतो न व्यर्थ आतापनादिक्रियाकलापः कर्मनिर्जरणफलः ॥ अथ न स्वतन्त्रमेव फलं ददाति कर्म, न तर्हि व्यर्थमातापनादि तपः पूर्वकृतं तद् भवति कम । न च व्यर्थो यत्नः, पुरुषप्रयत्नेन विपच्यमानत्वात् । ततश्च नारकदृष्टान्तः साध्यशून्यः। नारकीयमपि कर्म [अन्य]जन्मान्तरोपात्तं नरकभवापेक्षमुदयति । स्वपरिणामापेक्षं च न व्यर्थ, निर्जराफलत्वात् । एवं चातापनादिप्रयत्नस्थानीश्वरत्वमसिद्धं, कमोपगमहेतुत्वात् । यच्चोक्तं (पृ. २४२) 'न च तत्पूर्वकृतकर्मजं दुःखं प्रयत्नानुविधायित्वात्' इति, तदप्यपेशलम् । यद् यत् प्रयत्नानुविधायि तत् तत् पूर्वकृतकर्मन भवति,यथा नर्तकीभ्रूभङ्गकर्मेति। खदिरशलाकाभीतः किल नश्यन्ननाकुलः सुगतःप्रयत्नवानपि पादे विद्धः शलाकया। तच्च पादवेधनकर्म प्रयत्नानुविधायि भवति पूर्वकृतकर्मजं चेत्यनेकान्तः ।
"इत एकनवते कल्पे, शक्त्या मे पुरुषो हतः।
तस्य कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः ! ॥१॥" इति तसिद्धान्तः । नर्तकीभ्रूभङ्गोऽपि पूर्वकृतकर्म एव । भ्रूभङ्ग इति ध्रुवोविन्यासः-औदारिकशरीरावयवः । तच्चौदारिकं पूर्वकृतकर्मजं क्रियाक्रियावतोरभेदादिति साधनशून्यो दृष्टान्तः।न च कर्म क्रियैवाहतानाम् । कर्म हि पौगलिकमिष्टं तच्च पूर्वमिति । अथातापनाद्युपक्रमजनितमेव तद् दुःखं, न पूर्वकृतकर्मजं, ततः कर्मक्षयाभाव इति यदुक्तं (पृ०२४२,५०१५) तदसम्बध्यकमानमेव । यस्मात् पूर्वकृतमेव कर्म द्रव्याद्यपेक्षमुदेति, न पुनरातापनादिक्रियया तदपूर्वमेवोत्पद्यत इत्यज्ञातजैनसिद्धान्तेन वैयावृत्त्यादि कल्पितं मूढेनेति । तचाशङ्कितमातापनादिप्रयत्नोऽपि पूर्वकर्मकृत एवेति, ततश्च पुरुषकाराभाव इत्येतदप्यज्ञानविजृम्भितम् । जीवकर्मणोरनादिसम्बन्धः । आत्मा च संसारी सकर्मकः कर्ता। क्रियत इति च कर्म, वीर्यान्तरायक्षयोपशमाच्च । वीर्य-प्रयलविशेषः आत्मनः करणजन्यः । करणानि च कर्तृव्यापारापेक्षाणि प्रयत्नमारभन्त इति । ईदृशि प्रक्रियायां कथं पुरुषकाराभावश्चोत्पद्यते । तथा अपरमुक्तमज्ञेन (पृ०२४२,पं० २१) यदि पापस्य कर्मणो यो विपाका सोऽपि कर्म, ततो मोक्षाभावः, पापक्षयासम्भवात् । यस्मात किल तदप्यौपक्रमिकं कर्म तस्याप्यपरो विपाकस्तस्याप्यपर इति कुतो मोक्षः। अत्राप्यज्ञानमेवापराध्यति । कर्मपुद्गलानां विपाकोऽनुभावो रसविशेषः । स कर्मैव गुणगुणिनोः कथञ्चिदैक्यात् । तच्च कर्म
१ नन्विहानोर्मी भवति' इति च-पाठः । २ प्रवृत्तेः' इति इ-च-पाठः । ३ 'मानकमेव' इति ज-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org