________________
सूत्रं १९] .. स्वोपज्ञभाष्य-टीकालङ्कृतम् पकं परिशटति जीवप्रदेशेभ्यः, न हि ततोऽन्यत् कर्मोपादानमस्ति, कथं मोक्षाभावः । न चायं नियमः-पापस्य कर्मणः पापेनैव विपाकेन भवितव्यं कुशलस्य च कुशलेनैवेति, स्थित्यनुभावबन्धयोर्विपर्यासवचनात् । यथोक्तम्--
" मूलप्रकृत्यभिन्नाः, सङ्क्रमयति गुणत उत्तराः प्रकृतीः ।
न त्वात्माऽमूतत्वा-दध्यवसानप्रयोगेण ॥१॥--आर्या शिथिलयति दृढं बन्धं, शिथिलं द्रढयति च कर्म ननु जीवः । उत्कृष्टाश्च जघन्या, स्थितिर्विपर्यासयति चापि ॥२॥-आर्या तारीकरणं ताम्र-स्य शोषणस्तेमने मृदः क्रमशः।
वृक्षपरिपाचनं वा, काले तेषूपदृष्टान्ताः ॥ ३॥"-आर्या सङ्क्रमस्य तारीकरणं, स्थितेः शोषणस्तेमने, वृक्षपरिपाचनमित्युदीरणाः।
"अनुभावांश्च विपर्या-सयति तथैव प्रयोगतो जीवः । तीव्रत्वमन्दत्वावस्थासु प्रकृतिष्वभिन्नासु ॥ ४ ॥-आर्या यद्वद् वा मन्दं सत्क्षारी-क्रियते हरिद्रया चूर्णम् ।
वातातपादिभिश्च, क्षारं मन्दीक्रियेत यथा ॥५॥"-आर्या इति । यदप्युक्तं (पृ० २४२) असश्चेतिता कृतबन्धतो मोक्षाभावः इति तदप्ययुक्तम् । यदि सञ्चेतितमेव शुभमशुभं वा बध्यते नासश्चेतितं, एवं तर्हि न कश्चिन्मिथ्याडष्टिरस्ति । न हि साङ्खथः काणभुजो वो द्विजादिवा स्वं दर्शनं मिथ्येति सञ्चेत्य प्रतिपद्यते । सर्वोऽपि हि स्वं दर्शनं निश्चितमेव सम्यगित्यभ्युपगच्छति, न मिथ्येति सञ्चेतयति । अथैवमाशङ्कथा:विपरीताभिनिवेशात् तस्य मिथ्यादर्शनम् । तदेवं सति रज्जुबुद्धया छिन्दतः सर्पमवश्यम्भाविनी हिंसाप्राप्तिः, विपरीताभिनिवेशात् संसारमोचकयाज्ञिकगलाकार्तप्रभृतीनां च निघ्नतां धर्मोज्यमेवेति पापमिति वा सञ्चेतनान पापं स्यात् । न हि ते अपुण्यमेव सञ्चेतयन्ति । अथ यथा तथा वा प्राणवधे विहिते पापं भवति, ततः सिद्धैव हिंसा नावश्यम् । यदि प्राणी च भवति प्राणिसंज्ञा च भवति वधकचित्तं वाऽस्योत्पद्यते वधितश्च भवति ततो हिंसेति । अथ ते हिंसामित्येवं सञ्चेतयन्ति संसारमोचकादयो भिक्षुरपि तर्हि सञ्चेतयितुं नियमेन जीववधो भवत्यारम्भ इति । यथोक्तम्
" भूकाष्ठाग्न्यपगोमय-बनवायुवनस्पतीन् पशून् प्रेष्यान्। .
मत्वाऽऽरभमाणस्य, प्राणव्यपरोपणं नियतम् ॥१॥-आर्या .. १ 'निगमः' इति ङ-पाठः। २ सानानयोगेन' इति डा-पाठः। ३ 'न तु' इति अ-पाठः ।
४'वा द्विजो वा' इत्यधिको इ-पाठः।
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org