________________
तत्त्वार्थाधिगमसूत्रम् .
[ अध्यायः ९३ आरम्भे सचेतन-मस्त्येतेषां च न तु जिघांसायाम् । इति तदपि तुल्यमुभये-षामप्यन्याभिसन्धित्वात् ॥ २ ॥-आर्या सश्चेत्यहिंसकोऽतिनृ-शंसस्तेषां तथा तु नारम्भी।
बन्धोऽपि तदनुरूपो, बन्धविशेषो हि भाववशात् ॥३॥"--आर्या अजाननवमन्यमानो वा यः शोणितमुत्पादयति मायासूनोस्तस्यानन्तर्यकमबुद्धबुद्धित्वान समस्ति । न च भक्तिशून्यस्य बुद्धोऽयमिति तत्त्वतोऽशुद्धिरस्ति । यस्य चास्ति भक्तिः स उपासकः कथमुत्पादयेद् बुद्धस्यामृक् । न च संशयितस्याश्रद्दधतश्च सञ्चेतनमिष्टम् । नो चेद् बाह्यारम्भेऽपि सर्वपाखण्डिनां भवेद् दोषः । यत् ते विदन्ति निर्ग्रन्थानां जीवाः किलेमे इति । आनन्तर्यकमेवं मातापित्रहतां वधेऽवाय स्तूपभिदश्च तथैव चौर्योण्यनृताधकुशलानि यथोक्तेन चतुष्टयसंयोगेनेति । बालस्य पांसुमुष्टी राज्यं फलित इति वास्ति बुद्धोक्तिः। न च पांसुष्वमत्वं व्यक्तम् । सञ्चेतयन्ति पसिन् रन्धनाद्यारम्भोपदेशित्वाच्च बुद्धस्य हिंसकत्वं प्राप्तं, न तु चेतयति स जन्तून् काष्ठाद्याश्रितकुन्थूद्देहिकापिपीलिकादीन् नो चेन्न भवेत् स सर्वज्ञः यद्यसञ्चेतितः कर्मबन्धो न भवति, ततः सवे एव प्रयत्नो व्यर्थः स्यात् ।
"ई भाषादानो-त्सर्गस्थानशयनाशनादिषु च । यतनं व्यर्थ सर्व, प्रतिलिख्यसमीक्ष्यकरणादि ॥१॥-आर्या पात्रपरीक्षणमुदक-स्रावणमुपसम्पदादिनियमाश्च। भावप्रामाण्येन तु, बुद्धस्य भवन्त्यपार्थानि ॥२॥—आर्या शुभबुद्धया शुभफलदं, यदि च शुभं कर्म तत् समारब्धम् ।
शुभबुद्धथा विप्राणां, पश्वादिवधे कथमधर्मः? ॥३॥"--आर्या यदप्युक्तं गन्धसमुद्गकवजन्तूनामापूर्णो लोकः । तदत्राहिंसकत्वं दुर्लभमिति । उक्तं च
"जीवव्याप्ते लोके, यतेरहिंसा कथं भवेत कृत्स्ना ।
उदधिमवगाहमानः, कथं न सचट्टयेत् सलिलम् ? ॥१॥-आर्या अत्रोच्यते" इत्येष विप्रलापो, यत्कायाः सूक्ष्मपरिणताः पञ्च । अप्रतिघातिन इष्टाः, स्कन्धप्रतिभेद उक्तश्च ॥२॥-आर्या अपि चाचित्ताः कायाः, प्रचुराः सन्तीह जीवनिर्मुक्ताः। स्याद् येषु यतेवृत्ति-निश्वासप्रभृतिचेष्टासु ॥ ३ ॥-आर्या
१५भिनिवेशसन्धित्वात् ' इति ग-पाठः। २ 'बुद्धिबुद्धत्वात् ' इति डा-पाठः। ग-पावः। ४ 'वीर्याण्य' इति ग-पाठः। ५ 'श्रितं उद्देहिका' इति -पाठः ।
३ 'वीयोसू' इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org