________________
२४२
तासा
तत्त्वार्थाधिगमसूत्रम् .
[ अध्यायः ९ भिष्वङ्गो-निर्ममता । प्रतिदिनमतिमात्राहारोपयोगात् प्रणीताहारोपयोगाच शरीरस्य गौरवं, ततश्च मासकल्पविहारित्वायोग्यता । तद्वर्जनात् तु शकटाभ्यञ्जनवदुपयोगाद् वा शरीरलाघवमुपजायते । ततश्चाप्रणीतशरीरस्योन्मादानुद्रेकादिन्द्रियविजयः । भक्तपानार्थमहिण्डमानस्य चर्याजनितजन्तूपरोधाभावात् संयमरक्षणं निःसङ्गादिगुणयोगादनशनादितपोऽनुतिष्ठतः शुभध्यानव्यवस्थितस्य कर्मनिर्जरणमवश्यं भवतीति । अत्र केचिन्मोहान्धतमसछाया(च्छ)नाश्चोद
__ यन्ति-आतापनशिरोलुश्चनानशनकायोत्सर्गादिकायक्लेशोपक्रमेण न कर्म
विच्छेदो भवतीति प्रतिजानते। विकल्प्य चैनमर्थं युक्त्या प्रसाधयन्ति ।
दुःखं चेत् पूर्वकृतजं व्यर्थो यत्नो न वा क्षयः, कर्माभावो न वा मोक्षो वेति नाकृतद्वन्द्वः। यत् तदनेकेनोपक्रमेणातापनादिना प्रयोगेणौपक्रमिकं बुद्धिपूर्वकमात्मानं तापयतां दुःखमुपजायते तत् किं पूर्वकृतकर्महेतुकमाहोस्विदातापनाद्युपक्रमेणैव जनितमिति १ । तत्र यदि प्रथमो विकल्पः पूर्वकृतकर्महेतुकं तदातापनादिजं दुःखमेव तर्हि व्यर्थ एवातापनाद्युपक्रमः। पूर्वकृतकर्मविपाके ह्यातापनादिप्रयत्नस्यानीश्वरत्वदर्शनान्नारकादिष्विति । ततश्चार्हतानामात्मसन्तापनाशुपक्रमविशेषवैयर्थ्यमन्यजन्मकृतकर्मफलोपभोगित्वान्नारकादिवदिति प्रयोगः । न च तत् पूर्वकृतकर्मजं दुःखं प्रयत्नानुविधायित्वानर्तकीभ्रूभङ्गवदिति ।
अथ द्वितीयो विकल्पः-आतापनाद्युपक्रमजनितमेव दुःखं, न पूर्वकृतकर्महेतुकम् , एवं तार्ह न वा क्षयः, कर्मणां क्षयाभावो वा यत्नवैयर्थ्य वेति वाशब्दाद् विकल्पः। नहि पूर्वकृतस्य पापस्य क्षयः सिद्धयति, तत्फलाप्रतिवेदनात्, अदत्तफलत्वादित्यर्थः। न तस्य कर्मणः परिक्षयः, अदत्तफलत्वात्, इतरादत्तफलकर्मवत् । अथ आतापनादिप्रयत्नोऽपि पूर्वकृतहेतुक एवाभ्युपेयते, न तर्हि कश्चित् पुरुषकारोऽस्तीति प्राप्तः काभावः। असति च पुरुषकारे प्राक्तनस्याकृतत्वादभाव: स्यात् कमेणो यस्यायमातापनादिप्रयत्न फलमभ्युपगम्यते तदपि प्राक्तनं कमें न सिध्यति इत्यत्यन्ताभाव एव कर्मणां प्राप्तः । न वा मोक्षः। अथ योऽसौ पापस्य कर्मणो विपाकः सोऽपि कर्मैव प्रतिज्ञायते, अतस्तदप्यौपक्रमिकं कर्म प्राप्नोति, पापविपाकत्वात् । अतो न सिध्यति मोक्षः, पापक्षयासम्भवात् । न वा पापस्य कर्मणः कुशलो विपाक आतापनादिः समस्ति, कुशलस्यापि अकुशलविपाकप्रसङ्गादिति । स एव मोक्षाभावप्रसङ्गः । नैवार्हतानां पापस्य कर्मणः क्षयः सम्भाव्यते। असञ्चेतिता कृतवन्धतः असञ्चेतितमपि प्राणातिपातादि कुर्वन्नेनसा युज्यते । लोकश्च व्याप्तः स्थावरजङ्गमजन्तुभिः सूक्ष्मै दरैश्च । तत्र चावश्यम्भावी चक्रमणादिक्रियासु जन्तुवधः। तथा अप्रकुर्वतोऽपि च पापं परेषामनुत्पादयन्तोऽपि च दुःखं कामक्रोधशोकभयादीनां निमित्तीभवन्तः पापेन युज्यन्ते। एवमसञ्चेतितबन्धतोऽकृतबन्धतश्च
१ 'चर्याजन्तूप' इति उ-च-पाठः । २ ‘भावीति' इति ङ-च-पाठः। ३ 'प्रपन्नानु' इति च-पाठः । ४'कर्मणः' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org