________________
सूत्रं १९ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
२४१
ऽवश्यम्भाविनी, एकत्वपरिणतेश्व विना संसार्यात्मनः सुखदुःखाभाव एव स्याद्, एवमात्मनः कायद्वारेण क्लेशोपपत्तिः “ सम्यग्योगनिग्रहो गुप्तिः" (अ० ९, सू० ४ ) इत्येतस्मात् सम्यग्ग्रह - णमनुवर्तते, तच्च कायक्लेशविशेषणम् । आगमानुसारिणी सम्यक्क्लेशोत्पत्तिः निर्जरायै न्याय्या | स चागमेऽनेकप्रकारः कायक्लेश उपन्यस्तः । तद्यथेत्यादिना तदनेकविधत्वं दर्शयतिस्थानवीरासनेत्यादि । स्थानग्रहणादूर्ध्वस्थानलक्षणकायोत्सर्गपरिग्रहः । तस्य चाभिग्रहविशेषात् स्वशक्त्यपेक्षतः कालनियमचंन्द्रावतंसक नृपतेरिवावगन्तव्यः । वीरासनं तु जानुप्रमाणासनसन्निविष्टस्याधस्तात् समाकृष्यते तदासनं, निवेष्टा च तदवस्थ एवास्ते यदा तदा कायक्लेशाख्यं तपो भवति । तत्राप्यभिग्रह विशेषादेव स्वसामर्थ्यापेक्षातः कालनियमः । उत्कदुकानं तु प्रसिद्धमेव विनाऽऽसनेन भूमौ वा प्राप्तस्फिग्द्वयस्य भवति । एकपार्श्वशायित्वं त्वधोमुख उत्तानमुखस्तिर्यग्व्यवस्थितो वा कालनियमभेदेन यदवतिष्ठते तत् तपः कायक्लेशाख्यम् । तथा दण्डायतशायित्वं नाम तपः ऋजुकृतशरीरः प्रसारितजङ्घाद्वयश्चलन रहितस्तिष्ठति यदा तदा तद् भवति । तथा आतापनमपि ऊर्ध्व बाहोरूर्ध्वस्थितस्यै निविष्टस्य निषण्णस्य वा प्रज्वलितगभस्तिजालस्य सवितुरभिमुखस्थितस्य भवति । अप्रावरणाभिग्रहः शिशिरसमये प्रावरणाग्रहणम् । आदिग्रहणात् हेमन्तेऽपि रजनीष्वातापनं सन्तापनमात्मनः, शीतार्तिसदनमित्यर्थः । तथा सलगण्डशायित्वमप्रतिकर्मशरीरत्वमस्त्रानकं केशोल्लुश्चनमित्येवमेतानि स्थानवीरासनादीनि ॥
भा० – सम्यक् प्रयुक्तानि बाह्यं तपः ।
टी० - सम्यक् प्रयुक्तानि आगमचोदितानि - अनुगता (नि) बाह्यं तपः । यथाशक्ति विधिनाऽनुष्ठेयम्, अन्यथा त्वविधिप्रयोगादात्मानमितरांश्च धर्मावश्यकविधानात् पीडयेदविध्युपयुक्त विषवत् । किं पुनरितो बाह्यात् तपसः फलमवाप्यत इत्याह-
बाह्यतपसः अनेकविधं फलम्
भा० - अस्मात् षड्विधादपि सङ्गत्याग- शरीरलाघवे-न्द्रियविजय-संयमरक्षण-कर्मनिर्जरा भवन्ति ॥ १९ ॥
टी० - अस्मात् षड्विधादपीति । सङ्गत्यागः शरीरलाघवं इन्द्रियविजयः संयमरक्षणं कर्मनिर्जरा चेत्यनेकं फलमासाद्यते । तत्र निःसङ्गत्वं बाह्याभ्यन्तरोपधिष्वन
Jain Education International
बाह्यात् तपसः
१' क्षात्' इति ङ-पाठः । २ एतद्वर्णनार्थं विलोक्यतां योगशास्त्रस्य स्वोपज्ञं विवरणं (पृ. १७७ ) । ३ ' निश्चेष्टा' इति ङ-पाठः । ४' देतत्' इति ङ-पाठः । ५ पेक्षात् ' इति ङ-पाठः । इति ग-पाठः । ७ ' चोदनानि नुगता बाह्यं ' इति च पाठः ।
६' नियमस्थस्य '
३१
For Private & Personal Use Only
www.jainelibrary.org